पृष्ठम्:तपतीसंवरणम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ तपती संवरणे मुक्तमूलममी प्राणाः प्रायः कण्ठविलम्बिनः । निर्गच्छन्ति पुरा सोऽयं सुदृष्टः कियतां जनः ॥ १२ ॥ विदूषकैः – (ससम्भ्रमं सास्रगद्गदम्) (क) हा हृदो ह्मि । एव्वं मयि उवक्कन्तं विहिणा । (सत्वरमुपसृत्य राज्ञोऽङ्गानि परामृशति) i राजा --- हा प्रिये ! (इत्यर्द्धोक्ते मूर्च्छया परामृष्टः) विदूषकः --- (सविषादम्) (ख) समस्ससदु समस्ससदु वअस्सो। ( पुन- र्विलोक्यै सविषादम्) कहं गदो एव्व अन्तं वअस्सो । (सशिर- स्ताडनम्) हा वअस्स ! हा सअळहरामण्डलेक्कणाह! हा ! मइ अआरणबद्धसिणेह! कीस मं अणण्णसरणं सव्व- (क) हा हतोऽस्मि । एवं मथ्युपक्रान्तं विधिना | (ख) समाश्वसितु समाश्वसितु वयस्यः । कथं गत एवान्तं वयस्यः । हा वयस्य ! हा सकलधरामण्डलैकनाथ! हा मय्यकारणबद्धस्नेह! कस्मान्मामनन्यशरणं सर्वकालसहचरं बालमित्रं दयितं परित्यज्य गच्छति । दीर्घायुषं वंशकरं पुत्रं लभमानो भवेति सिद्धादेशिकानां वचनमप्यलीकं सञ्जातम् । अथ वा किं मम परिदेवितैः । भृगुपतनेनानुसरामि प्रियवयस्यम् । पश्यन्ती स्थिता || इति नायिकाया विप्रलम्भपरिपोषस्य सम्भोगोन्मुखत्वं प्रकाश्य नायकस्य मोहावस्थापर्यन्तं प्रकाशयति - मुक्तमूलमित्यादि । प्राणानां यात्रोन्मुखत्वेनोर्ध्व- गतिरेवास्ति, अतो मुक्तमूलमित्युक्तम् । आधारकन्दं कुण्डलिन्यनुबद्धं मूलमिति निर्दिशति । तत्परित्यागो यथा भवति तथा । कण्ठविलम्बिनः कण्ठकुहरमात्रे सक्ताः । निर्गच्छन्ति पुरा इदानीं निर्गमिष्यन्ति । किमत्र कर्तव्यमिति चेत्, सोऽयं जनः सुदृष्टः क्रियताम् । सोऽयं मदनोन्मादहेतुः । सुदृष्टः पुनस्तिरोधानर- हितं दृष्टः क्रियताम् ॥ १२ ॥ इति वैवश्येनाविस्पष्टाक्षरं वयस्यं प्रति कथने तस्य सम्भ्रमप्रलापादिकम् || १. 'कः (सा' इति क ख घ. पाठः. २. 'स्रम्' इति क-घ. पाठ:. ३. 'पगम्य रा' इति क. पाठ.. ४. 'राजानं स्पृश' इति ख. पाठ: ५. 'कः- सम' इति क. पाठ: ६. 'दु पिअव' इति ख. पाठः. ७. 'क्य) क' इति क-ख. पाठ: ८. 'कस्स' इति पाठ