पृष्ठम्:तपतीसंवरणम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । १२३ नायिको - (सस्पृहं सरोमविक्रियं च स्वगतम्) (क) अम्महे एसो एव्व किळ जणो एदस्स कामुम्मादहेदू । (हर्षमूर्च्छिता पतति) मेनका - (सहर्षबाष्पगद्गदम् ) (ख) सहि ! मुच्छेहि मुच्छेहि । अणु- मदं मए । - रम्भा - (ससम्भ्रमम् ) (ग) सहि ! को दे सम्मोहो । पमोदणिमित्तं पि एसा मुच्छइ एव्व । ता समासासह्न णं । उभे- (उपसृत्य) (घ) समस्ससद् समस्ससद् पिअसही। (नायिका प्रत्यागत्य प्रेमविस्मृतनिमेषा राजानं पश्यन्ती तिष्ठति राजा- (अविस्पष्टाक्षरम् ) सखे ! (क) अहो एष एव किल जन एतस्य कामोन्मादहेतुः । (ख) सखि ! मूर्च्छ मूर्च्छ । अनुमतं मया । (ग) सखि ! कस्ते सम्मोहः । प्रमोदनित्तिमप्येषा मूर्च्छत्येव । तत् समाश्वासयाव एनाम् । (घ) समाश्वसितु समाश्वसितु प्रियसखी । एवमात्मसंशयान्धकारविध्वंसनं नायकस्य वचन चन्द्रिकाप्रवाहमवधार्य हर्षपरवशा रोमाञ्चवेपथुप्रभृतिभिर्विकारैः सह नायिका स्वयमेव वदति --- अम्महे इत्यादि । आश्चर्यम् एष एव किल जन एतस्य कामोन्मादहेतुः । एष इत्यात्मानं निर्दिश्योक्तिः । किलेति पूर्व मया न निरूपितम् इदानीमस्य वचनेनैव नि- श्चितम् । एतस्य महापुरुषस्य | अहो मम भाग्योदय इति प्रकाश्यते । अत एव हर्षपारवश्येन मूर्च्छया पतनम् ॥ तद् दृष्ट्वा मूर्च्छ मूर्च्छ, अनुमतं मयेति निमित्तगौरवं निरूप्य मेनकाया उक्तिः । एवं हर्षपारवश्येन मूर्च्छनं युक्तमेवेत्यभिप्रायः ॥ तत्रापि रम्भा दोषं निरूपयति -- कस्ते सम्मोहः, प्रमोदनिमित्त नप्येषा मूर्च्छत्येव ॥ इत्युक्ता ताभ्यां समाश्वासिता निवृत्तसंशया प्रेमविस्मृतनिमेषा राजानं १. 'का (सरोमविक्रियम्) अ' इति क. पाठः, 'का स्व' इति ख. पाठः. २. 'भेस' इति क-ख. पाठः, ३. 'षं रा' इति क-घ. पाठः ४. 'न तिर्यक् प' इति क. पाउ:, ५. 'म्) मु' इति क. पाठ: