पृष्ठम्:तपतीसंवरणम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ तपतीसंवरणे राजा - सत्यातपे यथैव कुमुदाकरो - नायिका – ( पुनः सशोकम् ) (क) ण अरिदं खु पुण्णं मए ॥ १० ॥ - 3 राजा - (दीर्घमुष्णं च निःश्वस्य सकृपणम् ) दयिते ! तव खलु सख्या समु च्चारिते संवरणध्वनावन्यार्थेऽपि सम्भ्रान्तदृशा त्वया चलितधृति तदानीमार्यपुत्रेति वाचः कतिचिदमृतगर्भाण्यक्षराण्युक्तवत्या । करकमलमिदानीं कान्तमङ्गे मदीये कथमिव निधत्या नाहमुज्जीवनीयः ॥ ११ ॥ (क) न चरितं खलु पुण्यं मया । एवं हर्षावलम्बने सत्यातपे यथैव कुमुदाकारः रविसम्भवे आतपे सति यथैव कुमुदाकर इति दृष्टान्तदार्ष्टान्तिकबुद्ध्या पुनरपि विषादपुरस्सरं वैराग्ये विश्रभ्याह–न चरितं खलु पुण्यं मया । पुण्याभावेनैवमनिष्टप्राप्तिः ॥ १० ॥ एवं तस्या आत्मवैराग्ये प्रकर्षे नीते परिपोषं गतस्य पुनरुद्दीपनं रसभङ्ग- हेतुरिति नायकस्य प्रलापेन तस्याः संशयमपाकरोति दयिते ! इत्यादि । तदा त्वयि परिश्रमेण विषण्णायां स्तनांशुकापनयनप्रस्तावे सख्या भित्त्यर्थे संवरण- ध्वनावुच्चारिते संवरणशब्दे कथिते शब्दश्रवणमात्रेणैव मदागमनबुद्ध्या सम्भ्रा- न्तदृशा 'आर्यपुत्रे'ति वाचः कतिचिदक्षराणि न समग्राणि तान्यपि वदनामृतकिर- णान्निर्गतान्यमृतकल्पान्येव । (तथा? त्वया) उक्तवत्या मयि निर्व्याज: पक्षपातस्तदा प्रकाशितः । इदानीं मय्यनन्यशरणे शयाने कान्तं करकमलं मदीयेऽङ्गे निदधत्या कथमिव नोज्जीवनीयः इदानीमेव स्नेहातिशयः प्रकाशयितुं योग्यः । उज्जीवनीय इति मृतकल्पत्वादन्यन्मम जीवनसाधनं नास्तीति च प्रकाशितम् । अत्रैक- वाक्यतया निर्देशः । अत्र निदधत्येति निधानक्रियायाः कर्तरि निगूढत्वेऽप्युज्जीव- नीय इत्यत्र निधानस्य जीवनसाधनत्वापेक्षया मदीयेऽङ्गे करकमलं निधाय कथं नोज्जीवनीय इत्यर्थः सिध्यति । कथमित्यनेनेदमेव युक्तमिति प्रार्थनागर्भं वचनम् || १. 'घै नि' इति क-पाठ:. -