पृष्ठम्:तपतीसंवरणम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । मेनका --- (क) अप्पावमाणिणि णिवत्तेहि दाणि । नायिको - (सहर्षे प्रतिनिवृत्यात्मगतम्) (ख) हिअअ ! दे गओ संसओ सुणाहि गअसंभमं राजा --- शुचमुपैमि चन्द्रातपे । नायिका – (सशोकम् ) (ग) हदह्मि राजा - रविसम्भवे नायिका --- (पुनः सप्रमोदम् ) (घ) हिअअ ! तुस्स (क) आत्मावमानिनि ! निवर्तस्वेदानीम् । (ख) हृदय! ते गतः संशयः । शृणु गतसम्भ्रमम् | (ग) हतास्मि । (घ) हृदय ! तुष्य | तथोक्तेऽपि तन्निवर्तनोपायमन्विच्छन्ती मेनका 'निये तपति' इति हृदिस्थाया एतत्सम्बोधनं कृतं, विस्रन्भभावनया निदेये इत्युक्तमिति निश्चित्य प्रस्थितां तां सा- धिक्षेपमाह – आत्मावमानिनि ! आत्मावमाननं तव स्वभावः । तच्च सर्वदा न शोभते, तेन एतदनुरागस्वाहं न पात्रभूतेति भावयित्वा मदुक्तावप्यविश्वासमवल- म्बमाना खिद्यसे, इदानीमेवं सम्बोधिता शङ्कां परित्यज । निवर्तस्व || -- इत्युक्ता हर्षेण सह सन्निवृत्य हृदयं प्रत्याह हृदय ! ते संशयो गतः वचनामृतस्यार्द्धपानेन ते संशयक्षुण्निवृत्ता । अतः क्षुदुपशान्त्या संभ्रमं विमुच्य स्वैरासिकामवलम्बमानं वचनामृतशेषेण सन्तृप्तिं कुरु | संबोधनमेव कृतं, श्रोतव्यमु परितनमेव ॥ एवं हर्षे तस्योक्तिशेषः – शुचमुपैमि चन्द्रातपे || - एवमुक्ते नैराकाङ्क्ष्येण वाक्यं परिपूर्णम् । तदान्यथाप्रतीत्या पुनरपि स- विषादमाह- हतास्मि अनिष्टसिद्ध्याहं नष्टेव जन्मकायाभावाद् इति ॥ -

१. पुनरुक्तस्य दृष्टान्तैकदेशमाह - रविसम्भवे इति सप्तम्यन्ततया ॥ - पुनरपि पितृगोत्रपूर्व सविशेष संबोधनं मत्वा सहर्षमुक्तिः - हृदय ! तुष्य | मुक्तः संशयः । पूर्व नाम्ना पुनश्च गोणनाम्ना संबोधनं | शुचमुपैनीत्य- वस्थानिवेदनं मां प्रति ॥ ( का (प्र' इति क. पाठः.