पृष्ठम्:तपतीसंवरणम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे नायिका --- (आत्मगतम्) (क) हं णट्ठह्यि (प्रकाशम्) इदो वरं किं सोदव्वं । मेनका -- (ख) तक्कमि तुह केरओ ण होइ त्ति अवहत्थिओ क- ण्णेउरो । नायिका -- (सरोषम्) (ग) पुव्वं तुह एसो वतंसओ एदस्स अ- स्सासहेदु त्ति भणिअं । इदाणिं तुह ण होइ त्ति परिच्चत्तो त्ति भणासि । अहो दे एदस्सिं पक्खवादो। (प्रस्थातुमिच्छति) राजा - प्रिये तपति निर्दये F (क) हं नष्टास्मि । इतः परं किं श्रोतव्यम् । (ख) तर्कयामि त्वदीयो न भवतत्यिपहस्तितः कर्णपूरः। (ग) पूर्वं तवैष वतंसक एतस्याश्वासहेतुरिति भणितम् । इदानीं तव न भवतीति परित्यक्त इति भणसि । अहो तवैतस्मिन् पक्षपातः । एवं कर्णपूरेऽपनीते नैराश्यनिश्चयेनाह – नष्टास्मीति । मत्सम्बधिनि कर्णपूरेऽस्य विरागो जातः । तदहं नष्ठैवेति निश्चित्याधिक्षेपगर्भ सखीं प्रत्याह- इतः परं किं श्रोतव्यमिति । अस्मासु विरागः पूर्वमेव मया निश्चितः, युष्मन्निर्बन्धेन श्रोतव्यं श्रुतं, तद् गन्तव्यमेवेति शेषः ।। - मेनका राज्ञ एतद्विषयमनुरागं निश्चिन्वाना तत्र तत्र शङ्कां प्रतिक्षिपति- त्वदीयो न भवतीति भ्रमेण कर्णपूरस्त्यक्त इति मे बुद्धिः, न त्वय्यनास्थया ॥ तदुक्ति प्रतिक्षिपति – पूर्वमित्यादि । पूर्व तवैष वतंस एतस्याश्वासहेतुरिति भणितम् | इदानीं परित्यागे त्वदीयत्वेनाज्ञानं हेतुरिति वदसि । कदाचिदपि तस्या- पराधो मा भवत्विति ते बुद्धिः । अत्र तवास्मिन् पक्षपातो विस्मयनीयः । आदित आरभ्य त्वं तस्य मदानुगुण्यमेव बोधयसि । तत्र पक्षपात एव निमित्तम् । पक्षपातो वास्तवमप्याच्छादयति । तत् त्वदुक्तिमनङ्गीकृत्याहं यास्यामीति निराशया प्रस्थातुमुद्यता || अथ तथा प्रस्थितायाः पुनरपि व्यभिचारिभावैर्नैराश्यमेव परकाष्ठां नेतुं नायकस्य तदानुगुण्येनोन्मादप्रलापः प्रतिपाद्यते – प्रिये इत्यादि । अत्र चित्त- व्याक्षेपेणाक्रमेण पदविन्यासः । प्रिये सर्वहृद्ये । तपति पीडयति । निर्दय इति विशेष्यसाकाङ्क्षं विशेषणं प्रथमं निर्दिष्टम् । तत्रासन्नमूर्च्छतया विश्रम्य कथनम् ॥