पृष्ठम्:तपतीसंवरणम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । ह्मसुत्तस्स कण्णेउरस्स कहं अतक्किओ आगमो । मण्णे भीदाहि अन्तळिहिदाहि वाणरजादीहि पक्खित्तो न्ति । रम्भा -- (क) धस्स गामिळ ! वटुअ ! तुमं एव्व वाणरो । राजा ~~ (सालसं दृष्टिमुन्मील्य पश्यन्) सखे ! समर्पयैनं मम हृदये । ( विपको दण्डकाष्टादेवमुच्यार्पयति ) मेनका - (ख) सहि ! इदाणं पञ्चेहि । राजाँ - (स्मृत्वा सावज्ञम्) आः कस्या अयं कर्णपूरः। अपनीयतां तावत् । (विदूषकोऽपनयति) भीताभिरन्तर्हिताभिर्वानरजातिभिः प्रक्षिप्त इति । (क) अपगच्छ ग्रामिल! बटुक ! त्वमेव वानरः । (ख) सखि ! इदानीं प्रत्येहि । भीताभिर्वानरजातिभिः परित्यक्त इत्युक्ते रम्भा निरसनं प्रतिक्षिपति धस्स अपगच्छ, मैवमनुचितं वादीरिति शेषः । ग्रामिल! ग्रामाश्रय ! बटुक ! ब्रह्मबन्धो ! त्वमेव वानरः, न वयमिति तेनाश्रुतमपि प्रतिक्षेपं करोति । वैरूप्य- स्यातिदूरीकरणमत्राभिप्रायः ॥ अथ शयितः सादातिशयेन नयनोन्मीलनेऽप्यशक्तः सालसं दृष्टिमुन्मील्य पश्यन् वदतीत्यनेनं परकाष्ठां प्राप्तस्योन्मादस्यासन्नमूर्च्छत्वं प्रकाशितम् । समर्पयै- नमित्याश्वासो भवेद् वेत्याशंसयोक्तौ ॥ तेन कर्णपूरस्य हृदयसमर्पणे कृते मेनका तां विश्वासयति सखि ! इदानीं प्रत्येहि प्रत्ययं गच्छ । पूर्व सर्वत्र त्वया युक्तिभिरविश्वास एव साधितः । इदानीं त्वत्कर्णपूरस्य हृदयार्पणे विश्वसिहि ॥ एवं कर्णपूरे न्यस्ते नायिकाया विपर्ययज्ञानपरिपोषाय नायकस्यानास्थां प्रकाशयति – आः कस्या अयमिति । अनेनापि व्याक्षेपातिशयः प्रकाशितः ॥ - १. 'त' इति क. पाठ', 'न्तर्हिदा' इति ख. पाठ:. २. 'मुळ्ळ ! व' इति ख-ग पाठ:. ३. 'क: - तह (द' इति ख. पाठ: ४. 'द्विमु' इति क ख घ. पाठः. ५. 'जा— आः' इति ख. पाठः. ६. 'रः । आ: अ' इति ख. पाठः.