पृष्ठम्:तपतीसंवरणम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ तपतीसंवरणे नायिका --- (क) होदु एदं । विवित्ते पिअवअस्सस्स 'अक्खित्तोह्यि केवळं विह्मएण, ण अण्णह' त्ति भणिअं । एदं 'पि किं चाडू । मेनका ---(ख) अदिगम्भीरा हि पुरिसा अत्तणो अहिणवं चावळं सव्वदो रक्खन्ति । रम्भा - (ग) सहि ! जाणिदो कण्णेउरस्स आगमो बह्मणादो । ता दीणस्स एदस्स एदं दइस्सं । (विदूषकस्य पुरतो निक्षिपति ) विदूषकः -- (बिलोक्य सविस्मयम् ) (घ) भो ! सदण्डअट्ठस्स सब- (क) भवत्वेतत् । विविक्ते प्रियवयस्यस्य 'आक्षिप्तोऽस्मि केवलं विस्मयेन, नान्य- थे'ति भणितम् । एतदपि किं चाटुः । (ख) अतिगम्भीरा हि पुरुषा आत्मनोऽभिनवं चापलं सर्वतो रक्षन्ति । (ग) सखि! ज्ञातः कर्णपूरस्यागमो ब्राह्मणात् । तद् दीनस्यैतस्यैतं दास्यामि । (घ) भो! सदण्डकाष्टस्य सब्रह्मसूत्रस्य कर्णपूरस्य कथमतर्कित आगमः । मन्ये इत्युक्ते अर्द्धाङ्गीकारेण प्रतिक्षिपति- भवत्वेतत् । विविक्ते अन्यजनरहिते । प्रियवयस्यस्य आत्मतुल्यस्य 'आक्षिप्तोऽस्मि केवलं विस्मयेन, नान्यथे'ति भणि- तम् । अत्र केवलमित्युक्त्या स्वहृदयमेव प्रकाशितम् । एतदपि किं चाटुः । देवीं प्रति चाटुरस्तु, विविक्ते प्रियवयस्यं प्रत्युक्तमेतत् सत्यमेव ॥ इत्याक्षिप्तं मेनका पुनरपि समाधत्ते - •अतिगम्भीराः स्वविकारगोपन- निपुणाः पुरुषा आत्मनो नूतनं हृदयचापलं सर्वतो रक्षन्ति, नात्राप्तानाप्तविशेषः । अतश्चापलगोपनायैव तं प्रत्युक्तम् । तच्छङ्कां परित्यज ॥ अथ रम्भा तस्य वैषम्यमालक्ष्याह - सखीत्यादि । कर्णपूरस्यागमो ब्राह्मणात् ज्ञातः ‘यः किञ्चिदाश्वासक इति सम्भावितः, स कर्णपूरो मम प्रमादेन मर्कटह- स्तगत आसीद्' इत्यनेनास्याश्वासकरत्वं प्रमादेन परित्यागश्च ज्ञातः । तदिदानी- मनेनोपयोगो भवति । दीनस्यैतस्यैतं दास्यामि ॥ इति तदग्रतः कर्णपूरे क्षिप्ते सविस्मय आह - सदण्डकाष्ठस्येत्यादि । १. 'पि चा इति क्र. पाठः, -