पृष्ठम्:तपतीसंवरणम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । विदूषकः -- (सविषादम्) (क) किण्णु हु सए मन्दभाषण कादव्वं । जो किञ्चि अस्सासहेदु त्ति सम्भाविओ, सो विकण्णेउरो मम प्पमादेण मक्कडहत्थगओ आसि । - मेनका – (साकृतम्) (ख) सहि ! अविस्सम्भसीळे ! जइ तई एसो उदासीणो, कहं तुह केरएण कण्णेउरेण से आसासो । नायिका – (ग) किं तुए ण सुदं देविं अणुणअन्तस्स वअणं 'अब्भुअरसो एत्थ अवरज्झदि त्ति । मेनका – (घ) बाळिआ खु तुवं । अणहिण्णा चउरचाडूणं । (क) किंनु खल्लु मया मन्दभाग्येन कर्तव्यम् | यः किञ्चिदाश्वासहेतुरिति सम्भा- वितः, सोऽपि कर्णपूरो मम प्रमादेन मर्कटहस्तगत आसीत् । (ख) सखि! अविस्रम्भशीले ! यदि त्वय्येष उदासीनः, कथं त्वदीयेन कर्णपूरे- णास्याश्वासः । (ग) किं त्वया न श्रुतं देवीमनुनयतो वचनम् 'अद्भुतरसोऽत्रापराद्ध्यति' इति । (घ) बालिका खलु त्वम् । अनभिज्ञा चतुरचाटूनाम् । इति तस्य वैवश्यमालक्ष्याह – किंन्वित्यादि । - अथ मेनका ‘आश्वासहेतुः कर्णपूरो मर्कटहस्त (गत ) ' इति तद्वचनं श्रुत्वा साभिप्रायं वदति – अविस्रम्भशीले ! अविस्रम्भः अपरिचयः तेन तत्कार्यमविश्वासो लक्ष्यते, अस्मदुक्तौ कुत्रापि तव न विश्वासः | यदि त्वय्युदासीनः, कथं त्वदीयेन कर्णपूरेणास्याश्वासः । तत् शङ्कां परित्यजेत्यर्थः ॥ वैराग्येण तद्वचनं प्रतिक्षिपति - किं तुए इत्यादि । तदुक्तमन्यथाकरोति मेनका -त्वं बालिका मूढा । मौढ्यं च न सर्वत्र । चतु- रचाटूनामनभिज्ञा चतुराणां प्रियभाषणं न जानासि 'अद्भुतरसोऽयमन्त्रापराव्यती' ति आत्महृदयमाच्छाद्य तदनुसरणायैवोक्तिः । मनस्तु त्वय्येव ।। १. 'आसास' इति ख. पाठ:. २. 'ओ कण्णेउरो सो वि म' इति क ख. पाठ: ३. 'इ उ. इति क. पाठः. ४. 'ज्झो त्ति' क. पाठ:. ५. 'भि' इति क-ख. पाठः,