पृष्ठम्:तपतीसंवरणम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे नायिका- (आत्मगतम्) (क) मूढहिअअ! तुवं दाव अण्णाए णाम- हेअस्स असङ्कितणमत्तं ओळम्बिअ दुरासाए मरणकिद- व्यवसाअं मं पडिबन्धेसि । राजा - सखे! पश्य मदीयां दशां, यतः शयितुमषि न शक्नोमि । CO (क) मृढहृदय ! त्वं तावदन्यस्या नामधेयस्यासङ्कीर्तनमात्रमवलम्ब्य दुराशया मरणकृतव्यवसायां मां प्रतिबध्नासि । प्रतिदिनं प्रवृद्धाभिः कलाभिः । कुशलि पूर्णत्वेन वर्तमानम् । अत एव चन्द्रिकोद्वारि चन्द्रिकोद्वमनयुक्तं न मेघादिनिरुद्धम् । अविभक्तावयवा का- न्तिश्चन्द्रिका । विभक्तावयवा रश्मय इति भेदः । एवं बिम्बस्य न वैकल्यं शङ्कनीयम् । मां प्रत्येवैवं विरोधः, यतः कुमुदबन्धोः अनन्यशरणेषु तत्र तत्र प्रसृतेषु कुमुदेषु जडेष्वपि विकासजननेनास्य बन्धुत्वमेव लक्ष्यते । म- य्येकस्मिन्नेव वैपरीत्यम् । अतोऽप्यधिकं शृणु, गुरोरपि अस्मत्कुलगुरोरपि । तथा निरूपणेऽप्यन्धकारनिरोध एव युक्तः, नार्पणम् । अत्र गु (रु) शब्दनिर्वचनं स्मार- यति । अन्धकारानर्पयतीत्युक्तं कार्येण साधयति - अपिहितगुणदोषानिति । अत्र मोहस्यान्धकारत्वेनाध्यबसायाद् मोहेऽन्धकारधर्मे योजयति । पदार्थावरणमन्ध- कारस्य धर्मः, सोऽत्रापि विद्यते । अपिहितगुणदोषान् आच्छादितगुणदोषान् अयं गुणोऽयं दोष इति विवेकनिरोधसमर्थान् । एवम्भूतानन्धकारान् मम मनस्यर्प- यतीति मयातिप्रतीपाः पदार्थशक्तय इत्युक्तम् । चन्द्ररश्मिसंस्पर्शेनापि वर्द्धत एव मोहः । तत् कथं त्वयोक्तं मोहोपनयनं घटत इत्यभिप्रायः ॥ ९ ॥ -- अथ नायिकाशङ्कापरिपोषं नयति-मूढेत्यादि । अन्यस्या नामधेयस्यासङ्की- र्त्तनमात्रमवलम्व्य दुराशया मरणकृतव्यवसायां मां प्रतिबध्नासि । अन्यस्यां सक्तिरिति निश्चयः, तन्नामासङ्कीर्तनमेव तवाशानिमित्तम् । अतो दुराशैव । मरण- कृतव्यवसायाम्, असावन्यत्र सक्तः, तथापि मम मनो न निवर्त्तते, तन्मरणमेव श्लाघ्यमिति कृतव्यवसायां कथं निवारयसीति वैराग्यगर्भोक्तिः ॥ सखे ! पश्येत्यादि । मदीयामवस्थां यतः शयितुमपि न शक्नोमि केवलं शयनेऽपि न शक्तिः ॥