पृष्ठम्:तपतीसंवरणम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । विदूषकः - (क) भो ! एदे पदुमराअगवक्खन्तरप्पविट्ठा किं णा- वणअन्ति दे अणङ्गमोहं चन्दमोहा । राजो-सखे! असम्भृतपुण्यसञ्चयानामतिप्रतीपाः पदार्थशक्तयः । पश्य- MAARING अबहुलविनिपातादार्जिताभिः कलाभिः कुशाल कुमुदबन्धोचन्द्रिकोद्गारि बिम्बम् । अपि मनसि गुरोर्मे हारगौरैः कराम्रै- रपिहितगुणदोषानर्पयत्यन्धकारान् ॥ ९ ॥ (क) भो! एते पद्मरागगवाक्षान्तरप्रविष्टाः किं नापनयन्ति ते अनङ्गमोहं चन्द्र- मयूखाः । निर्दिशति - भो वयस्य ! एते पद्मरागगवाक्षान्तरप्रविष्टाः पद्मरागमयस्य गवा- क्षस्य अन्तरेण छिद्रेण मण्डपं प्रविष्टाश्चन्द्रमयूखास्ते अनङ्गमोहं किं नापन - यन्ति, अपनेतुं शक्ता एव । तद् अनायाससिद्धे सन्तापशमनोपाये सति किमेवं परितप्यसे || - इत्याश्वासवचनमाकर्ण्य तेषामपि (मोहकरत्वं ) साधयति - सखे! इत्यादि । सखे ! आत्मनिर्विशेषं त्वां मद्वैषम्यं बोधयामि । लोके तावद् असम्भृतपुण्यसञ्च- यानां निरन्तरमनार्जितपुण्यपूराणां जनानाम् | पदार्थशक्तयः पदार्थानां स्रक्चन्द- नानां, शक्तयः तत्तदर्थक्रियानिर्वहणसमर्थाः शीतोष्णादिस्वरूपाः तत्त्वस्थितयः । अतिप्रतीपाः अतिविरुद्धाः । तत्र पुण्यार्जनाभावस्यैवापराधः । इममर्थं तत्पति- निवेशयोग्ये मयि निरूपय । 'चन्द्रमयूखा अनङ्गमोहं किं नापनयन्ती' ति त्वयो- क्तम् । मयि तदन्यथा दृश्यते । कुमुदवन्धोः बिम्बं मे मनसि करायैरन्धकारान- र्पयति, अन्धकारविध्वंसनं खल्वस्य स्वभावः, कराग्राणां च तत्साधनत्वमिति युक्तं, मयि त्वन्धकारानपर्यति, पूर्वसिद्धमन्धकारं नापनयतीत्येव न, आत्मना समुच्छेद्यं मम मनस्यर्पयतीत्यतिप्रतीपा इति मयोक्तम् । तर्हि कराग्राणां वैकल्येनेति चेत् तन्न । हारगौरैः हारवन्निर्मलैः । तर्हि बिम्बस्य किमपि वैकल्यमिति चेत् तदपि न शङ्कनीयम् । अबहुलविनिपातादार्जिताभिः कलाभिः कुशलि । बहुलः कृष्णपक्षः तेन विनिपात उपप्लवः, बहुलस्य विनिपातः प्राप्तिर्वा तदभावात्, अथवा अबहुलस्य शुक्लपक्षस्य प्राप्तेर्वा । आर्जिताभिः १. 'जा ---अ' इति ख. पाठः,