पृष्ठम्:तपतीसंवरणम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे मेनका - (क) सहि ! अहिणवा खु तुवं । ण एसो देवीविरहुक्क- ण्ठिओ। किं ण सुदो तुए णववहूसहो । नायिका - (ख) तह वि किं मम । - a रम्भा – (ग) अदो खु संसओ । पुणो वि सुणह्म । - (क) सखि ! अभिनवा खलु त्वम् । नैष देवीविरहोत्कण्ठितः । किं न श्रुत- स्त्वया नववधूशब्दः । (ख) तथापि किं मम । (ग) अतः खलु संशयः । पुनरपि शृणुमः । विवेकः । एतस्य हृदयं पुनर्मया चिरप्रार्थितमपि ममाभिमुखीकर्तुं मय्यर्षयितुं न समर्थो भवसि । तत्र चिरप्रार्थितस्यादानमप्यविवेकः । अयं मयि नानुरक्तः, स्वदेवी- सक्त एव प्रलपतीति मदनमधिक्षिप्य तमेवार्थ नैराश्यगर्भ सख्यौ बोधयति - एष तावादति । अस्य मद्विषयोऽनुराग इति तव भ्रमः । असौ देवीविरहोत्कण्ठितः प्रलापाय प्रारब्धवान् । प्रवृत्त एव, अस्य व्याप्तिः कियतीति न ज्ञायते । तत् किमत्रैतत्प्रलापश्रवणेनास्माकं प्रयोजनम् || इत्युक्तावन्यत्र गन्तव्यमित्यभिप्रायं ज्ञात्वा मेनकान्यथा साधयति - सखी- त्यादि । मदनवृत्तान्तेऽपरिचिता खलु त्वम् । इदम्प्रथममेव तवात्र मनोवृत्तिः । नैष देवीविरहोत्कण्ठितः । एतदुक्तं सम्भोगप्रकारं त्वां बोधयितुं न शक्यं, तथापि मदुक्तिं विनापि ते निःसंशयत्वं युक्तम् । त्वया नववधूशब्दः किं न श्रुतः, अपरिचयेऽपि शब्दश्रवणमात्रेण ज्ञातुं शक्यम् । तत् संशयं मा कृथाः ।। इत्युक्तमपि निरस्यति -— तथापि किं ममेति । नववधूशब्दमात्रेण किं मम लब्धम्, अन्याश्च सन्ति नववध्वः, नाहमेकैव ॥ इति नैराश्यगर्भं वचनमाकर्ण्य रम्भा तत्र युक्तिमाद - - अतः खलु सं- शयः । नववधूशब्देन संशय एव योग्यः, न नैराश्यं विशेषानिर्देशात्, पुनरपि श्रोतव्यमेवेति गमननिर्बन्धं रुणद्धि | ५ अथ नर्मसचिवः शिशिरोपचारादिकं विफलमालक्ष्योपायान्तरं स्वतःसिद्धतया