पृष्ठम्:तपतीसंवरणम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । नायिका – (सासूयमात्मगतम्) (क) वम्मह! अहो दे अविवेओ, जं अप्पत्थिअं पि एदेण मम हिअअं अच्छिन्दिअ दिण्णं । चिरप्पत्थिअं पि एदस्स हिअअं मम अहिमुहं कादुं ण पारेसि । (प्रकाशंम्) एसो दाव देवीविरहुक्कण्ठिओ परिदे- विउं पवुत्तो । ता किं एत्थ अह्माणं पओअणं । (क) मन्मथ ! अहो ते अविवेकः, यदप्रार्थितमप्येतेन मम हृदयमाच्छिन्द्य दत्तम् । चिरप्रार्थितमप्येतस्य हृदयं ममाभिमुखं कर्तुं न पारयसि । एष ताबद् देवीविरहोत्कण्ठितः परिदेवितुं प्रवृत्तः । तत् किमत्रास्माकं प्रयोजनम् । रूपावलोकने मधुरालापश्रवणे गमनशयनासनादिषु क्षणमपि तव न विप्रयोगः । आकृष्यमाणमपि बलाद्धावसि । तत् कुतः परिखिद्यसे | साध्यसिद्धौ सत्यां परि- खेदस्यैव न योग्यता, किं पुनस्तत्कार्यस्य सम्भ्रमस्येत्येवं निजहृदयं परीकृत्य कथनेनोन्मादस्य प्रकर्षः प्रकाशितः ॥ ८ ॥ अत्राभिलाषविप्रलम्भे वर्ण्यमाने 'न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुत' इति युक्त्योपरितनसम्भोगसौभाग्यजनकं तमेव मूर्च्छापर्यन्तं परिपोषं नयति । तत्र नायकस्य नायिकाया आत्मविषयमनुरागं जानतोऽप्यलाभेन सन्तापपरि- पोषः । नायिकायास्त्वात्मविषयानुराग उन्नीतेऽपि देवीप्रेमशङ्कयोपर्युपरि वि- षादपरिपोषः । रागसमर्थनेन नायिकासमाश्वासने प्रयासः । एवं स्थिते नायिका नायकस्य हृदयं प्रति वचनमाकर्ण्यायं देवीविरहेण प्रलपतीति तत्रासूयामव- लम्बमानोन्मादस्याविच्छिन्नतया मदनमभिमुखीकृत्य वदति - मन्मथेत्यादि । नि- रन्तरमस्मन्मनोमथनदीक्षितं त्वां किञ्चिदधिक्षिपामि । अहो ते अविवेकः । ते वीरंग- न्यस्य विमर्शाभाव आश्चर्यकरः । कुत इति चेत् श्रृणु । मम हृदयं शरैमी पीड- यित्वा बलादपहृत्यैतस्मै दत्तम् । अप्रार्थितमपि एतस्या हृदयं मय्यर्पयेति तत्प्रा- र्थनां विनापि दत्तम् । लोके यद्य (न्य )स्य धनमन्यस्मै दीयते तर्हि प्रतिग्रहीतुः प्रा- र्थनामनुसृत्य सामपूर्वी परिगृह्य दीयते, नतु हठान्निरपेक्षया, इत्यनिरूपणमेकोऽ- - ३. 'ह्याअं । मेन' इति १. 'शम्) सहि ! ए' इति ग. पाठः. २. 'सो दे' इति क. पाठ:. क. पाठः,