पृष्ठम्:तपतीसंवरणम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे CI राजा - सखे ! हृदयमत्रापराध्यति । अयि हृदय ! भवतु तावदल- भमानस्य तां मम सम्भ्रमः । त्वं तु - चकितनयनं चुम्बस्यंसे निवर्तितमाननं प्रतिनववधूं लज्जालोलां बलादुपगूहसि । अनतिशिथिलं नीवीग्रन्थिं पुनः परिलोलयद् विचरसि शनैः श्रोणीचके कुतः परिखिद्यसे ॥ ८ ॥ - इति तद्वचनमाकर्ण्य व्याक्षिप्तचित्त एवोत्तरमाह - हृदयमपराध्यति ना-

हम् । हृदयस्य सम्भ्रम एवात्र निमित्तमिति प्रसङ्गे हृदयं परीकृत्याह हृदयेति । अयि हृदय ! निरर्गलं स्वार्थं प्रति मामनवेक्ष्य धावता त्वया किमर्थं चापलमवलम्ब्यते; नावयोः साम्यम् । मम चापलं तावद् भवतु चापल (ए? मे) व भवतु । तस्यैव योग्यता, यतस्तामलभमानस्य, ताम् अलाभे अनुपेक्षायोग्याम्, अलभ- मानस्य इदानीमेवासिद्धतल्लाभस्य सम्भ्रम एवोचितः । त्वं त्वतीव विसदृशः कुतः परिखिद्यसे । सम्भ्रमस्य परिखेदो निमित्तमिति कुतः परिखिद्यस इत्यु- क्तम् । किमर्थं संभ्राम्यसीत्यर्थः । परिखेदाभावस्य हेतुमाह - चकितनयनमि- त्यादि । आवयोरतीवान्तरम्, अहं तामलभमानः गिरिकान्तारादिषु परिभ्रमामि, त्वं क्षणमपि तत्सन्निधिं न मुञ्चसि । वयोवस्थासदृशस्य स्वभावस्यानुसरणं रसा- वहमिति नववधूस्वभावमनुसृत्य तदाननं चुम्बसि लज्जयापरिचयेन च रति- वैलोम्येन चुम्बने अंसे निवर्तितमाननम् औत्सुक्येन तत्रापि प्रसरत् चुम्बसि, नानुकूल्यमपेक्ष्य तिष्ठसि । एवं प्रतिनववधूं भोगाद्यपरिचितां ताम् । अत एव लज्जालोलां वेपथुशरीरसङ्कोचादिकमाचरन्तीम् । बलात् सहसा, नतु हठात् । छिद्रम- न्विष्य प्रत्यालिङ्गनमनपेक्ष्याप्युपगृहसि न वैलोम्येन निवर्तसे प्रतिपालयसि वा । पुनरिति भोगे क्रमोऽपि लक्ष्यते । आश्लेषानन्तरम् अनतिशिथिलं प्रेम्णा ईषदुच्छ्रसितं "नीवी च स्वलति स्थितापि जघने कामेङ्गितं योषिताम्" इत्यु- क्त्या ईषच्छिथिलं नीवीबन्धं शनैः परिलोलयत् तदुद्वेगमनापादयत् शिथिलयत्, आक्षिपदित्यर्थः । श्रोणीचक्रे शनैर्विचरसि सम्भ्रमेण विघ्नान्तरेण वा साध्यं न मुञ्चसि । सर्वत्र वर्तमाननिर्देशेनेदानीमपि भोगं न मुञ्चसि, मदुक्तावपि तत्रैव ते कटाक्ष इति प्रकाश्यते । कुत इति कस्माद्धेतोः । प्रधानभूतान्येव मयोक्तानि । -