पृष्ठम्:तपतीसंवरणम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । विदूषकः --- (सविस्मयम् ) (क) भो वअस्स! पुणो वि रत्ती आसी। एत्थ रम्मे पदेसे उर्दुसङ्करो विअ अहोरत्तसङ्करो संवृत्तौ । को एत्थ हेदू | राजा-( सविमर्श) सखे ! सन्निहितदिव्यजनेषु प्रदेशेषु किमस- म्भावनीयं नाम | सखे ! किमिति न वीजयसि | विदूषकः – (सोद्वेगमात्मगतम् ) (ख) स्वणे स्वणे वड्ढन्ती भाआवेई मं एदस्स मअणुम्माओ । (प्रकाशम्) भो वअस्स ! को दे सम्मोहो । णं तुए णिवारिदो । - राजा (क) भो वयस्य ! पुनरपि रात्रिरासीत् । अत्र रम्ये प्रदेशे ऋतुसङ्कर इवाहोरात्र- सङ्करः संवृत्तः । कोऽत्र हेतुः । (ख) क्षणे क्षणे वर्द्धमानो भावयति मामेतस्य मदनोन्मादः । भो वयस्य ! कस्ते सम्मोहः । ननु त्वया निवारितः । एवमुक्त्वा देहतिरोधानेन झटिति तेजःसंहृतो पुनरपि रात्रिबुद्ध्या कथय- ति -- पुनरपीत्यादि । अत्र रम्ये प्रदेशे ऋतुसङ्करोऽस्माभिर्दृष्टः, इदानीमहोरात्र- सङ्करो दृश्यते । सङ्करः प्रतिक्षणं व्यत्यासः । अत्र को हेतुः ॥ इति तस्य भ्रमनिमित्तं वचनमाकर्ण्य विमृशन् नायको दिव्यजनसञ्चारा- दिना प्रभाप्रसरसङ्कोचाभ्यामस्य भ्रम इति जानन्नपि सन्तापवैवश्येन हास्यवचनं समर्थयितुमनिच्छन् गम्भीरोक्त्या परिहरति -- सन्निहितदिव्यजनेविति । किम- सम्भावनयं किमुत्प्रेक्षितुमशक्यं दिव्यजनस्य प्रभावेनाविर्भावतिरोभावादिभिश्च अद्भुतत्वेन घटमानमघटमानं वोत्प्रेक्षितुं शक्यम् | दिव्यजनसान्निध्य मेवात्र हेतुः, न देशविशेषः । तत् तिष्ठतु | प्रकृतं किं त्वया विस्मृतम् । किमितीदानीं न वीजयसि ॥ - इति तस्य वचनमाकर्ण्य सः स्वयं निरूपयति - क्षणे क्षण इत्यादि । क्षणे क्षणे वर्धमान एव, नतु शाम्यन् । अतो मां भाययति । कोऽस्य परिणाम इति निरूप्याक्षेपं प्रकटयति - ननु त्वयेत्यादि । विरम मुहूर्तमिति त्वया ननु निवारितः । स एवेदानीं किमिति न वीजयसीति ममापराधमारोप्य कथयसि || १. 'ड' इति ख. पाठः, २. 'ए' इति ख. पाठ:.