पृष्ठम्:तपतीसंवरणम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे मेनका ---(जनान्तिकम्) (क) सहि| एसो सो राएसी बळिअं सन्दावं उब्वहन्तो सिसिरोवआरेहि उवअरिज्जन्तो सइदो चिठ्ठइ । एसो उण बह्मणो तुह पआसीकिदमण्डवन्भन्तरेण पहा- जाळेण विप्पळद्धो पभादं त्ति विप्पळवदि । ता तिरक्खर- णीविज्जाए पडिच्छण्णाओ दक्खा एदाणं वावारं । ( तथा कृत्वा तिष्ठन्ति ) (क) सखि ! एप स राजर्षिर्बलीयांसं सन्तापमुद्रुहन् शिशिरोपचारैरुपचर्यमाणः शयितस्तिष्ठति । एष पुनर्ब्राह्मणस्तव प्रकाशीकृतमण्डपाभ्यन्तरेण प्रभाजा- लेन विप्रलब्धः प्रभातमिति विप्रलपति । तत् तिरस्करणीविद्यया प्रतिच्छन्ना द्रक्ष्याम एतयोर्व्यापारम् । प्रभातम् इति । प्रभास्फुरणस्यान्यथानुपपत्तिबोधेन प्रभातमिति प्रदोषोपक्रम एव तस्य बुद्धिः ॥ - - एवं प्रवेशोपक्रमे तत्र शयितं नायकं दृष्ट्वा विदूषकवचनं चाकर्ण्य मेन- का नायिकामाश्वासयन्ती बोधयति - सखीत्यादि । एषः अस्माभिरन्विष्टो विधि- वशाद् दृष्टिगोचरः । पश्येति शेषः । सः अखिलभुवनप्रसिद्धः पूर्वमेवास्मा- भिरनुभूतरूपचातुर्यस्तदा तदा प्रस्तुतः | राजर्षिः राजोचितरञ्जनादिगुणानाम् ऋषिसमुचितजितेन्द्रियत्वादिगुणानामाश्रयत्वेनोभयप्रकाशकराजर्षिशब्दवाच्यः । • बलीयांसं सन्तापमुद्वहन् त्वत्सन्तापादतिशयितं सन्तापमुद्वहन् गुरुं भारमिव वहन् । शयितस्तिष्ठति शयितो वर्तते । केन सन्तापो ज्ञायत इत्यत्राह - शिशिरोपचारै- रुपचर्यमाणः उपचारसाधनैर्नलिनी पत्रादिभिर्वयस्येन परिचर्यमाणः । शिशिरो- पचारेण शयनेन च सन्तापोद्वहनं निश्चीयते । अत्रैवम्भूतो राजर्षिस्त्वन्निमित्तमेव वैवश्यमवलम्बते । तद् आदरणीये आत्मनि विरागं मा कृथाः । साध्यालाभेन विषादं च परित्यजेत्याश्वासपरं वचनम् । तिष्ठतीत्यत्र धातोर्गतिनिवृत्त्यर्थत्वाद- वस्थानोपवेशनशयनसाधारणत्वाद् विशेषं बोधयितुं शयित इत्युक्तिः । एवमाश्वा- स्य पुनरवस्थामाह - एष पुनरित्यादि । तव प्रभाजालेन विप्रलब्धः प्रभातमिति विरुद्धभाषणं करोति । तत् प्रतिच्छन्ना एतद्व्यापारं पश्यामः ॥