पृष्ठम्:तपतीसंवरणम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । १०९

  • तक्केमि तस्स राअवयस्सस्स को वि पमादो एसो त्ति ।

नायिका- - (रम्भां विलोक्य) (क) सहि! दाणि कहिं सो बह्मणो । रम्भा -- (सस्मितम् ) (ख) एदस्सि एव्व तवणवणे कहिं पि वट्टइ । नायिका – (खेदमभिनीयं) (ग) सहि ! अम्बरगमणाआसो मं अ- तिमत्तं पीडेइ । ता एदस्सिं फळिहमण्डवे विस्समह्म । सख्यौ --- (घ) सहि ! एव्वं करह्म । ( प्रवेशं रूपयन्ति ) विदूषकः – (ससम्भ्रमम् ) (ङ) कहं पओसोवक्कमे एव्व पहादं । वतंसकः । तत् तर्कयामि तस्य राजवयस्यस्य कोऽपि प्रमाद एष इति । (क) सखि ! इदानीं क स ब्राह्मणः । (ख) अस्मिन्नेव तपनवने कापि वर्तते । (ग) सखि! अम्वरगमनायासो मामतिमात्रं पीडयति । तदेतस्मिन् स्फटिकमण्डपे विश्राम्यामः । (घ) सखि ! एवं कुर्मः । (ङ) कथं प्रदोषोपक्रम एवं प्रभातम् । एवं वतंसकवृत्तान्तेन साध्यसिध्यभावात् प्रकारान्तरेण ज्ञातुं तत्सम्बद्धं ब्राह्मणं पृच्छति - इदानीमित्यादि । क्व स राजवयस्य इति पृष्टेऽतिप्रसङ्गो भवे- दिति बुद्ध्या क्व स ब्राह्मण इति पृच्छति ॥ एवमस्या वैषम्यं ज्ञात्वा रम्भा मया ज्ञातं त्वद्वैषम्यमिति स्मितेन बोधयि- त्वाह- अस्मिन्नेव तपनवने क्वापि वर्तत इति ॥ एवं तत्सन्निधिं ज्ञात्वा हेत्वन्तरं प्रकाश्य तत्र विश्रमापेक्षां कथयति- अम्बरगमनेत्यादि । अतिमात्रं पीडयतीत्यनेन विश्रमनिर्बन्धं प्रकाशयति । अत एवोक्तम् एतस्मिन् स्फटिकमण्डपे विश्राम्याम इति ॥ एवं तासां मण्डपप्रवेशारम्भे प्रभाप्रसरव्यामोहितो नर्मसचिव आह - कथं क. पाठ:. ३. 'भा' इति ख. पाठः. त्वाह १. 'य) अ' इति क. पाठ:. २. 'ह्म । (सर्वा: प्र'

  • 'मन्ये' इति तु व्याख्यानुसारी पाठः.

-