पृष्ठम्:तन्त्रवार्तिकम्.djvu/८८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२०
तन्त्रवार्तिके ।


वाक्यभेदप्रसङ्गान्यूर्वा निरोधीयते। प्रश्रोत्तरत्वेनायं पूर्वोक्त एव
वाक्यभेदः परामृश्यते। तस्मादेकायतप्ररोचनयैवात्र विधिरिति
प्ररोचयमाना अनष्ठावृणामिति । “रुच्यथर्थानां प्रीयमाण” इति
सम्प्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्यन्तरत्वादितिचेन्न।
तचापि रुचिसंबन्धानपद्भवात्। अथ सामान्यविवशया षष्यु
च्यते साप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठावृणां क्रियाया
इति सम्बन्धः केभ्यः प्ररोचयमाना इत्यपेशिते ऽर्थात्तेभ्य एवेति
गम्यते। अथ चानुष्ठावृणामुपकरिष्यन्तीति सम्बन्धः। क्रियाया
इति पञ्चमी क्रियातो ऽपि हि तएव प्ररोचका इति । अथ वा
क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । क चिदर्थ स्तुवन्तीतिशावन्तं क
चिदिति विधेयं तत्सम्बन्धिनं वा कं चिदा विदधति क्रियां तत्
स्बन्धिनं वा तच्च स्तुतिद्वारेणेत्युपपत्रं (१) प्रत्ययोद्वारेणार्थवादप्रा
माण्यम्। इदं तु व्याख्यानं नानुमन्यन्ते। यदि हि प्रत्ययोत्खा
तिः स्यात्ततः केन स्तुतिराकाङ्क्येत न तावच्छब्दभावना कथं
भावोऽस्ति। याऽपि कस्मादित्यपेशा कल्ण्येत सापि विधीतिकर्त
व्यताविषयैव तदनुग्रहार्थत्वात्। शब्दान्तरव्यपदेशमानं तु भि
द्यते। सापि च नियुज्यमानस्यैव पुरुषस्य भवति न क्रियामात्र
श्रवणात्। न हि वायव्यश्वतालम्भइत्यतः कार्तव्यताऽकर्तव्यती
ते प्राक् प्रशस्तोऽप्रशस्त इति वा ऽपेच्यते। तदनपेशितं च श्रु
तिमात्रेणेव वदन्ती नार्थवादाः प्रतिपादयन्ति । न च धात्वर्थ
न सद्द कस्य चित्सम्बन्धो ऽपेक्षा वा विद्यते । सर्वस्य भावना
गामित्वात् । भावंना तु प्रत्ययोङ्कारेणापनीता किमपेत्क्षेत ।
तस्मात्तङ्गतांशवयोच्छेदान्न भूतिः फलं न यागः करणं न वेति


(१) प्रत्ययत्यागेनार्थवादप्रामाण्यम् इति पाठ: 'ग' पुस्तके ।