वर्णत्रयसाधारणत्वात । श्रध्यापनाद्यपि भिन्नाचारक्षत्रियवैश्य
प्रतियोगित्वात्संदिग्धम् । सर्वच दुष्टश्यद्रेषु संभाव्यमानत्वाद
निश्चितम् । यस्खविचारितसिङ्कमेव प्रतिपद्येत स शुक्तिकामपि
रजतं मन्यमानः क्रीणीयात् । नैष दोषः । क चिद्दि का चि
ज्जातिग्रहणे इतिकर्त्तव्यता भवतीति वर्णितमेतत् । तेन यथै
वालोकन्द्रियानेकपिण्डानुस्यूतिशब्दस्मरणव्यक्तिमत्त्वसंनिक
षकारविशेषादयोन्यजातिग्रहणे कारणं तथैवात्रोत्पादक
जातिसारणम् । श्रयं चोत्पाद्योत्याट्कसम्बन्धेा मातरोरेव प्रत्य
चः श्रन्येषां त्वनुमानाप्तोपदेशाद्यवगतः कारणं भवति । न चा
वश्यं प्रत्यक्षावगतमेव प्रत्यक्षनिमित्तं भवति । चक्षुरादेरनवग
तस्यापि निमित्तत्वदर्शनात्। श्रान्तरालिकस्मृतिव्यवहितमपि
चेन्द्रियसम्बन्धानुमारि प्रत्यक्षमित्येतत्साधितम् । न च यत्सत्
सा सर्वस्य प्रत्यक्षां न भवति तनिपुणतो ऽपि पश्यतां न प्रत्य
क्षमित्येतदप्युक्तमेव । ख्यपराधातु दुर्जानो ऽयं सम्बन्ध इति
स्वयमेव वच्यति । न च तावन्मात्रेण प्रत्यक्षता हीयते । न हि
यद्भिरिष्टङ्गमारुच्चा गृह्यते तदप्रत्यक्षम्। न च खीणां क चिट्ट
भिचारदर्शनात्सर्वत्रैव कल्पना युक्ता लोकविरुद्वानुमानासं
भवात्। विशिष्टेन हि प्रयत्रेन महाकुलीनाः परिदशन्यात्मान
मनेनैव क्षेतना राजभिब्रहह्मणैश्च खपिवपितामहादिपारम्पर्या
विस्मरणार्थे समक्लेख्यानि (१) प्रवर्त्तितानि । तथा च प्रति
कलं गणदोषस्मरणात्तदनूरुपाः प्रवृत्तिनिवृत्तयो दृश्यन्ते ।
न च भर्तृव्यतिरेककृतेन वर्णसंकरो ऽपराधेन जायते । दृश्य
(१) मूलपुरुषप्रभृतिवर्तमानपुरुषपर्यन्तानां सम्बन्धप्रदर्शनपुरःसरं नामोक्रेस्ाव इचितो वंशवृक्षः ।