पृष्ठम्:तन्त्रवार्तिकम्.djvu/७५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य द्वितीय: पाद: ।


ते ह्यपराधिनीनामपि खभनिमित्तः प्रसवः । तदपराधनिमि
तस्तु तासामप्रभफलोपभोगो भवेद् न त्वपत्यानां वर्णसंकरः।
न च नियोगतो वर्णान्तरैरेव सच प्रमादः । सवणेन चोत्पादि
तस्य नैव वर्णान्तरत्वापत्तिः । संकरजातानामपि च पुनरुत्क
स्वेतावन्मात्रमागमिक प्रत्येतव्यम् । न ह्ययं पुरुषेयत्तानियमो
लेकिकप्रमाणगम्यः । तस्मात्सत्यपि सारुप्ये यथा केन चिन्नि
मित्तेन खीपुंस्कोकिलादिविभागज्ञानं तथैव दर्शनस्मरणपार
म्पयनुगृहीतप्रत्यक्षगम्यानि ब्राह्मणत्वादोनि इति भवत्यज्ञा
नवचनस्य प्रत्यक्षशविरोधः । येषामप्याचारनिमित्ता ब्राह्मणत्वा
दयस्तेषामपि दृष्टविरोधस्तावदस्त्येव न त्वाचारनिमित्तवर्णवि
भागे प्रमाणं किं चित् । सिद्भानां हि ब्राह्मणादीनामाचारा वि
धीयन्ते, तत्रेतरेतराश्रयता भवेत्। ब्राह्मणादीनामाचारस्तदशेन
ब्राह्मणादय इति । स एव शुभाचारकाले ब्राह्मणः पुनरपूरभा
चारकाले शाद्र इत्यनवस्थितत्वम् । तथेकनेव प्रयत्नेन परपी
डानुग्रहादि कुर्वेतां युगपद्राह्मणत्वाब्राह्मणत्वविरोधः । एता
भिरुपपत्तिभिस्खयं प्रतिपाद्यते । न तपश्रादीनां समदायो ब्रा
ह्मण्यम् । न तज्जनितः संस्कारः । न तदभिव्यङ्ग्या जातिः ।
किं तर्हि मातापिटजातिज्ञानाभिव्यङ्ग्या प्रत्यक्षसमधिगम्या ।
तस्मात्पर्वणैव न्यायेन वर्णविभागे व्यवस्थिते मासेन शूद्रो भव
तीत्येवमादीनि कर्मनिन्दावचनान्यथ वा वर्णत्रयकर्मचानिप्र
तिपादनार्थानीति वक्तव्यम् । पूर्ववचाचापि कृप्तत्वात्प्रत्यक्षस्य
करूप्येनाज्ञानविधिना सच विकम्पो न संभवति । अपि च ।
तत्रानुष्ठानात्मकत्वाङ्गवेदपि न त्वत्र वस्तुरूपाणामैकात्येना