पृष्ठम्:तन्त्रवार्तिकम्.djvu/७२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तन्त्रवार्तिके ।


अथ वा वाक्यानां मध्ये एकदेशाक्षेपः कतिपयानामित्यर्थः ।
तत्र यानि तावत्केवलविधियुक्तानि तेषु नैवाशङ्का। यान्यपि
लिङादिमन्ति प्रागर्थवादभ्यो विधिसमर्थानि तैः संयुज्यार्था
न्तरे स्तुतिस्तुत्यसम्बन्धे वर्तन्ते तेषामर्थवादाभावे तन्मात्रमेव
दीयते न तु विधित्वेन पुरुषार्थतापि । यानि तु वर्तमानापदेश
युक्तानि स्तुतिनिरपेक्षविध्यसमर्थानि यथा यस्य खादिरः त्रु
वो भवति स च्छन्दसामेव रसेनावद्यतीत्येवमादीनि तान्येकदे

शास्त्रदृष्टविरोधाच ।। २ ।।

वाङ्मनसयोर्विद्यमानमविद्यमानं वा स्तेयानृतवदनमुच्य
मानं धर्म खार्थे ऽपि वा न प्रामाण्यं प्रतिपद्यते । अथ त्व
ध्याहारादिभिरेवं कल्प्येत वाङ्मनसयोः सर्वशरीरेषु चेष्टाः प्र
ति(१) प्राधान्यादितरभूतेन्द्रियैरपि तचरितमनुवर्त्तितव्यमिति
ततः शाखविरोधः । तत्रैतत्स्यात् । विहितप्रतिषिद्वत्वात्षोड
श्यादिवद्विकल्प इति । इतरस्तु कल्पनीयस्कुप्तत्वेन वैषम्यमा
छ । ननु चात्यन्तदुर्बलो ऽपि विधिस्तदधीनात्मलाभेन प्र
तिषेधेन तल्यबलो भवतीति प्रतिषेधः प्रदेशे ऽनारभ्य विधाने
देवम् । यत्पुनरर्थप्राप्त निषिध्यते तत्र विध्यनभ्यनुज्ञयैव ल
ब्धात्मानः प्रतिषेधा बलीयांसो भवन्तीति तत्रैव वच्यते ऽर्थ
प्राप्तवदिति चेदिति तेयानृतवादयोश्च विनैव शास्त्रेण प्रवृत्तः
योर्विधिनिरपेक्षेोवस्थितः प्रतिषेध इति कल्प्यं विधिं बाधते
तस्मादानर्थक्यम् । अतः परं खार्थेनैवानर्थकथं प्रतिपादयति ।


(१) चेष्टां प्रतीति 'स्'ग' 'घ'ड' पुस्तकेषु ।