पृष्ठम्:तन्त्रवार्तिकम्.djvu/७१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य द्वितीय: पाद: ।


यत्रापि तावत्खाधीनः प्रमाणविनियोगस्तत्राप्येतद्दर्लभं किमु
ताबद्विपूर्वनित्वावस्थितवेदोत्थापितज्ञानग्राह । न च वेदस्य
प्रयोजनवट्यभिधानशक्तिः प्रथममवधता । अयमेव हि परी
चाकालो वर्तते कीदृशं पुनर्बवोतीति (१) तच विदित्वा यथानु
रूपमनुष्ठातुं क्षमा वयं न तु वेदं पर्यनुयोत्तुं किमयं निष्प्रयो
जैनमभिदधाति तद्वा अभिट्धकिमर्थ प्रयत्नेन धार्यतइति ।
सर्वपरुषाणां कोवनं प्रतिपत्तृत्वेन पारतन्त्र्याद्देदग्रहणोत्तरकालं
च परोच्चावसरात्। न ह्यनधीतवेद एव श्रादौ परीक्षितुं क्षमः ।
पश्चात् परीक्षमाणस्य तु नाबङ्किपर्वनिवृत्तमध्ययनं प्रकरण
गतन्यायेन निश्चयक्षेतुर्भवति । तस्माद्यथैवाग्निहोत्रादिवा
कयानां गम्यमानप्रयोजनवत्वादानर्थक्यं निष्प्रमाणवकमिति ना
श्रीयते तथैवैषां प्रयोजनवत्वं नाश्रयितव्यम । न हि यथाव
गताभ्युपगमादन्यत् किं चित्साधीयः परीक्षकाणाम्। यो ऽपि
च केशन स्तुतिनिन्दात्मको ऽर्थः कल्प्येत स भावनयांशत्रया
नन्तःपातित्वान्न (२) गृह्यते । तया चागृहीतं न विधिप्रतिषे
धावाश्रयतः । तदनाश्रितं च दूरे पुरुषार्थाङ्गवतीति । अपि
च । एवंविधेषु स्तुतिनिन्दाकल्पनायां इतरतराश्रयप्रसङ्गः। स्तु
तिनिन्दात्मकत्वेन (३) होकवाक्यता तया चानुन्मीलितस्तुति
निन्दोत्प्रेक्षाश्रयणम् । न चान्यत्तरम्मूलप्रसिद्धिरस्ति यतो ऽव
तिष्ठेत । तस्मात्पृथगवस्थितानां दृष्टत्वादानर्थकयमेवोपपन्नतर
मिति। स एष वाक्यैकदेशस्येति । विधुद्देशातिरिक्तस्य सिद्वा
न्ताभिप्रायेणैकदेशत्वं न तु पूर्वपत्ते भिन्नवाक्यत्वाभ्युपगमात्।


(१) इति पद राहित: पाठ 'ग' पुस्तके ।

(२) भावनांशत्रयान-त:पातित्वादिति पाठो 'गङ' पुस्तकय । अयमेव च यन : ।

(3) नैवेति ‘घ' पुस्तके ।