पृष्ठम्:तन्त्रवार्तिकम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तन्त्रवार्तिके ।


कल्प्येत । एवमपि व्यवस्थाक्षेत्वभावान्न धर्माधर्मयोरवधारणं
स्यात् । यदेव हि वाक्यं गृहीतं तदेवाध्याहारविपरिणामादि
भिर्यथेष्टं कल्पयितुं शक्यते । तद्यथा सोरोदीदित्येवमेव ताव
द्वाक्यं विशिष्टपुरुषाचरितोपन्यासद्वारा रोदनकर्तव्यतापरम्।
अथ वा मचतामप्येवंविधाः प्रमादाः भवन्ति, तस्मात्प्रयन
वर्जयितव्यमिति । अतो विधिप्रतिषेधयोरस्फुटत्वाद्वर्माधर्म
त्वेन निर्णये शक्तयभाव । शाखदृष्टविरोधाट्यश्च स्थिता एव ।
यत्त भतान्वाख्यानमात्रं यथावस्थितेः प्रतिपाद्यते तत्र यद्यपि
सत्यत्वमस्येव तथापि न तेन प्रयोजनमित्यानर्थक्यम् । अपि
च । धूम एवाग्नेर्दिवे (१) त्यादीनां खार्थे ऽप्यप्रामाण्यं व
च्यते । विध्यकवाक्यत्ववशनैव तेष रूपभङ्गः क्रियते न च
तस्यापि किं चित्प्रमाणमस्ति । भिन्नेरपि हि तेः किं चित्प्र
तिपादयितुं शक्यमेव । न च तत्प्रतिपादयतां निष्प्रयोजनते
त्यविज्ञायमानप्रयोजनवदर्थान्तरकल्पना शकया । न हि लोष्ट
पश्यतस्तद्दर्शनं निष्प्रयोजनमिति तुवर्णदर्शनता कल्प्यते (२)
सर्वाण्येव च प्रमाणान्युपयुज्यमानमनुपयुज्यमानं वार्थमात्म
गाचरतापत्र गमयन्त । तेनेव चषा हानापादानायक्लाबुद्दयः
फलत्वन वएर्यन्ते । अन्यथा ह्यपादानमवक फलं स्यात् ।
अपि च । प्रमाणोत्पत्युत्तरकालं प्रयोजनवत्वमप्रयोजनव
त्वं वा िवज्ञायते न तु तद्दशेन प्रमाणोङ्गतिः । तस्माद्यो यद्रपी
ऽर्थः प्रतीयते स तथैव प्रयोजनवत्वमप्रयोजनवत्वं वा प्रतिपद्य
ते। न हि प्रयोजनवदेव मातव्यमिति कश्चिन्नियमचेतुरस्ति ।


(१) एवाग्नेरिति पाठः 'स्व' पुस्तके । (२) कल्प्येत इति पाठः ‘स्व' पुस्तके ।