पृष्ठम्:तन्त्रवार्तिकम्.djvu/३७७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमाध्यायस्य चतुर्थः पादः । ३०९ वैश्वदेवशब्दतद्विषयत्वेनेष्यते । तस्मात्सप्तसु यागेषु गुणविधिः। तत्रैतत्स्यात् । एक एव शब्दः सप्तसु विधिरामिशयां चानुवाद इति विप्रतिषिध्येत । तन्न॥ प्रकतत्वाविशेषे ऽपि यत्र प्राप्तिर्न विद्यते । विधेस्तत्रोपसंदरान वैप्यं भविष्यति ॥ अत्रोच्यते । नायं प्रकृतयु गणविधिरुपपद्यते । कथम् ॥ गुणन्तरावरुद्धत्वान्नावकाशो गुणो ऽपरः।। विकल्पो ऽपि न वैषम्यत्तमानामैव युज्यते । अग्न्यादयो हृत्पत्तिवाक्ये तद्वितश्रुत्याष्टाकपालादीनां देवता विश्वेदेव वाक्येन । नन्वत्राष्टाकपालदिसंबन्धाद्वाक्यमव। न । तद्धितेन द्रव्यविशेषस्य कृते देवतासंबन्धे वाक्येन विशेषणविशे प्यभावमात्रकरणत्। वैश्वदेवशब्दे ऽपि तथेति चेत्। न। याग- लश्चित द्रव्यसंबन्धकन्नविप्रकर्षात् । न तावदैश्वदेवेनेति प्रकृ तमप्रकृतं वा द्रव्यं देवत।संबन्धि धूयते । तत्र यजेतेति सामाना धिकरण्यादेवं तावद्विज्ञायते वैश्वदेवेन यागनति। ततश्चान्यथा यागसंबन्धानुपपत्त्या तत्साधनं द्रव्यं लक्षणया देवता स्कन्दति। वाक्येन च यागमात्रसंबन्धे सति प्रकरणादिदं कल्पनीयं तेनै वाग्नेयादिना यागेन वैश्वदेवेन यजेत नान्येनेति । न त्वन्या दिविधे का चिकशणपेशाप्रकरणपेक्षा वेति वैषम्यम् । नहि प्रकरणं द्रव्यस्येति । यदा द्रव्यस्य्न्यादिसंबन्धो विधीयते न तदा प्रकरणपेशेत्यर्थः। अथ वा यदद्रव्यस्य प्रकरणं न तदैश्व- देववाक्येनाश्रितम् । भाष्ये तु द्रव्यशब्दो वस्त्वाची नदि श्रेत स्याग्न्यादित्यस्य देवमानस्य प्रकरणं मधकं, वैयधिकर