सामग्री पर जाएँ

पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद: । १० ९ स्मरणम् । एवं यूपचतिनो दानमाचरन्तीति यूपपरिव्याणशाट कं यूपचतिशब्देन निर्दिश्याध्वर्युक्त्तव्यतयाचारानुमितयैव मृ पा प्रतिपादयन्ति । क्षत्रापि वेदमूलत्वकम्पना नोपपद्यते । कर्वसामान्यतः प्राप्ता लोभसंभवपूर्वकात् ॥ फटत्विजो हि प्रयोगमध्यपतितं यजमानं प्रक्रान्तकर्मावश्य समापनीयत्वनिबद्वसमाप्युत्तरकालभावि खाच्छन्द्य च विदि त्वा कार्यवत्तावेलायामेव खन्नगतप्राधान्यविभागव्यावृत्तभुतक वत्खयमुत्पाद्योत्पाद्य तानि तान्यादेयकानि श्रद्वाजनकार्थवाद पुरःसरं याचन्ते। प्रत्यक्षाश्रुतिविहितदेयान्तरनिदर्शनव्यामोहि तद्य यजमानः श्रद्दधानतया तथैव प्रतिपद्य तेभ्यः प्रयच्छतीति तेतरेषा स्मृतिः प्रवर्तिता स्याटित्याशङ्कायां वेदमन्नत्वं नानमीय ते । पूर्ववच लोभपूर्वकत्वकल्पनमेवोपपन्नमिति निर्णयात्संटच निवृत्तिः । इदं च भाष्यकारण प्रदर्शयता तुल्यकारणत्वात् पूर्व बापि प्रदर्शितमेवेति योजयितव्यम् । एतावत्विद्दाधिकरणद्वये पि वक्तव्यम् । स्मृतीनां श्रुतिमूलत्वे दृढे पूर्वे निरुपिते । विरोधे सत्यपि ज्ञातुं शुकथं मूलान्तरं कथम्। शाखान्तरविप्रकीर्णानि हि पुरुषान्तरप्रत्यक्षाण्येव वेदवा क्यानि पुरुषधर्मानुष्ठानक्रमेणापठितानि वेदसमाम्नायविनाश भयात्खरूपेणानुपन्यस्यार्थपनिवन्धनद्वारलभ्यानि विशिष्टध्वनि स्थानीयेन तेनेव परोक्षाण्यपि व्यज्यमानानि पिण्डीकत्य स्मर्य न्ते। तत्र यथैवाप्तप्रत्ययादिदमिह पद्यतइति कथितमचारित मनुच्चारितं वा शिष्याः प्रतिपद्यन्ते तथैव सूचकारवचनान्यध्या १४