पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तन्न्नवार्तिके । ननु च प्रागवस्थायां श्रुतियैवानुमीयते । सैवैदानीं विरुद्वेति गम्यते न पुनः सृतिः। नैतदेवम्। प्रतिप्रयोगं प्रमाणपथ्र्यालोचनात्। यदि चोकप्रयो गगता(१)लोचनेनैव प्रयोगान्तराण्यप्यनुतिष्ठयुस्ततो येन त्री शिास्त्रमप्रमाणीकृत्य यवाः परिगृह्वोरन्स यावज्जीवं तैरेव यजेतेति नैव प्रतिपुरुषमुभाभ्यां विकल्यमानाभ्यां व्यवहारः सिद्धोत्। तेन यावत्प्रयोगभाविप्रमाणाखोचनवशात्पूर्वानुमितां श्रुति क चिदप्यश्टखन्पुनरपि सृतिमेवोपलभ्य कर्टसामान्यति ङ्गेनैव श्रुतिमनुमिमानः प्रत्यक्षया श्रुत्याशिप्तचित्ततया तत्प्रामा एयेनान्यथानुपपद्यमानेन मृत्यप्रामाण्यं कल्पयन्पूर्वावधारित मनुव्यत्ययमेव प्रतिपद्यते, न पर्वतप्तमन्नुस्याप्रामाण्याध्यारोपम् । यचैतट्नवस्थानं त्वया मां प्रति चोद्यते । भवतो ऽपि तदस्येव तेनाचोद्यत्वमेकतः । यदा ह्यादैौ श्रु िश्रुत्वा सुतेन्नन्यानुमीयते । तदान्यमूलतापत्रकान्तनव बाध्यत ॥ कालान्तरेऽपि यो बाधः स्फटत्वेनावधार्यते । यत्तेनाप्यप्रमाणत्वं कृतं तन्न निवत्र्यने। पर्वसतिग्राहिणां च खयं बाधमचेतयमानानामपि -परुषा तरस्य श्रुतिश्रवणप्राथम्यबलेन बाधसंतानो ऽनुवर्त्ततएव । पुरुषान्तरबाधो ऽपि नेवाल्यं भ्रान्तिकारणम्। न हि द्विचन्द्रदिद्भीक्षा न बाध्येते नरान्तरैः ॥ ननु यवश्रुतेरपि तर्चि प्रमाणत्वेन परिगृह्यमाणायाः पुरुषा (१). प्रयोगमात्रेति पाठान्तरम् ॥