पृष्ठम्:तन्त्रवार्तिकम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतायः पादः. । ९५ तस्मात्यैर्वापर्यश्रवणमनाश्रित्य न चैककं प्रति शिष्यतइत्यनेन न्यायन सर्वपरुषान्प्रति नित्यावस्थितसमस्तपठयमानस्मर्यमाणवे दशाखायत्तज्ञानैर्जिज्ञासुभिरात्मीयाशक्तिमाचकारितपूर्वापर ग्रहणविभागैरेकवाक्यगतपूर्वेक्तरवर्णपदवइलावलमनपेच्च मा तापिटप्रणीतोपदशवन्निर्विचिकित्समेव प्रामाण्यमभ्यपगन्तव्य म्। अन्यथा हि । पूर्वप्राशैौ प्रमाणत्वं परत्वेनाप्रमाणताम्। प्रसज्यमानिकामेवं को ऽधवसंग्रेसचेतनः ॥ इत्थं च भ्रान्तिमूनत्वप्रसङ्गे कल्पिते मृतेः। अविरोधेऽपि त् िश्रुत्या प्रामाण्यं टुल्र्लभं भवत्। सर्वव श्रुतिमूलातः सर्वा वा भ्रान्तिमूलिका। सृतिरेवं निरूप्येत न तु स्यान्मूलसंकरः॥ उच्यते । यद्यपि पवेपलब्धया स्मया श्रतिमनपल्लभमानस्य प्रतिबन्धरहितश्रुत्यनुमानं क्रियेत तथापि कालान्तरे श्रुतिं श्रुत्वा तत्प्रतिपशमृते(१) र्वाधाध्यवसानादवश्यंभविश्रुतिमूलत्वविच्छेद ततश्च पूर्वविज्ञानं मिथ्यैतदिति चिन्तयन्। श्रादावेवाप्रमाणत्वं सूतेरित्यध्यवस्यति ॥ यी छि कृटकार्षापणेन कं चित्कालमज्ञो लोकमध्ये व्यव चरति न तेन विवेकज्ञानजनितव्युत्पत्तिनापि तथैव व्यवहर्तव्य म् । न चास्य तदानीन्तनज्ञानमात्रबाधबुद्विर्भवति । समानविषयत्वाद्वि पूर्वेषामपि बाधनम् । न हि तेषाममिथ्यात्वे मिथ्येदानीन्तनं भवेन् । (१) तत्परिग्रहपक्षे स्मृतेरिति पाठान्तरम् ।