पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तन्त्रवार्तिके । मानान्यथै समर्थयन्ति । तदिचाष्टकादीनां खर्गादिसाध्यसा धनभावं प्रत्यक्षादीनि तावन्न गृक्षन्तीति साधितम् । शब्दो ऽपि यथाद्देिोत्रादिष प्रत्यक्षेणीपन्नभ्यते नैवं मन्त्राः ॥ धमस्तित्वप्रमाणाड़ि विप्रकष्टतरा भवेत् । मानोऽप्यस्तीत्युच्यते ततो वरं धमस्तित्वमेव निष्प्रमाणकम भ्युपगतमिति। न वानुमानमप्यस्मिन्नष्टकाश्रुतिकल्पने। न ि स्टातस्तया व्याप्ता दृष्टा ऽन्यद्यानुमापकम् । यथव धम्म सम्ब न्धादर्शनान्न किं चिलिङ्ग क्रमते तथाष्टकादिश्रुतावपि । न वागमेन तद्दोधो नित्येन कृतकन वा । विस्रम्भः कृतक नास्ति नित्यो नैवोपपद्यते । यद्यप्यैन्द्रियकत्वादष्टकादिश्रुतीनां पैौरुषेयागमगम्यत्वं स भवति। तथापि विप्रलम्भभूयिष्ठत्वादश्रद्धेयवचनेषु पुरुषेष्वन ध्यवसानम् । दृश्यन्ते नागमिकानप्यर्थानागमिकत्वाध्यारो पेण के चिद्दद्यत्वे ऽप्यभिदधानाः। तेन मन्वादिभिरपि किमष्ट काश्रुतीरुपलभ्य वेदमूलत्वं खनिबन्धनानां प्रतिज्ञातमुतानुप लभ्यैव श्रद्देयवाक्यत्वार्थमिति दुष्टपरुषाकुलितचेतसां भवति - न्देहः । तावता च प्रामाण्यविघातः। नित्यस्य वचनस्यादिमत्स्र रणमलप्रतिपादने व्यापार एव नास्ति । न च मन्त्रलिङ्गानि ख यं मूलत्वं प्रतिपद्यन्ते। िवधिष्ठन्यत्वान्न च मूलान्तरं न्यायागतं सचन्त्यन्यपरत्वात् । न च सर्वेषां स्मृतिप्रणयिनामविगानं यन पैौरुषेयागमबलादुपलब्धपूर्वश्रुतिमूलत्वं स्यात् । न च विज्ञायते वाक्यं कीदृशंतै र्निरूपितम् ।