पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तन्त्रवार्तिके । प्रथमाध्यायस्य टतीयः पादः । धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष स्यात् ।। ९ ।। एवं तावद्विध्यर्थवादमन्त्रनामधेयात्मकस्य वेदस्य धर्मे प्रत्य पयोगः साधितः। इदानीं पैौरुषेयीषु स्मर्यमाणार्थावधिषु म न्वादिप्रणीतनिवन्धनास्तु सृतिध्वनिवद्वेषु चाचारेषु चिन्ता । तत्र किं चिदुदाहृत्य विचारः कर्तव्य इत्यष्टकाद्विस्मरणानि मन्वादिस्थानि । तङ्गन्यसमर्पितानि प्रमाणाप्रमाणविचारविष यत्वेनोदायिन्ते । सन्देहतुश्चाभिधीयते । पारतन्यात्खतो नैषां प्रमाणत्वावधारणा । अप्रामाण्यविकल्पस्तु द्रठिन्नेव विहन्यत । मन्वादिवचनं स्मृत्यपेक्ष स्मृतिश्च मलप्रमाणापेशिणीति नैकस्यापि वेदवन्निरपेक्षप्रामाण्यनिश्चयः । यतस्तु वेदवादिना मेवाविगानेनाविकिन्नपारम्पर्यपरियच्इदाढमतो नाप्रामाण्या ध्यवसानमिति युक्तः सन्दचस्तत्र पूर्वपक्षवादी वदति नेषां प्रा माण्यमेवापेक्षितव्यमिति । कुतः ॥ पर्वविज्ञानविषयं विज्ञानं स्मृतिरुच्यते । पूर्वज्ञानादिना तस्याः प्रामाण्यं नावधार्यते । सर्वसारणानि चि प्रत्यक्षाद्यवगते ऽर्थे तदानुरूप्येणोपजाय