पृष्ठम्:तन्त्रवार्तिकम्.djvu/११९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


५१
प्रथमाध्यायस्य द्वितीय: पाद ।


ततः सैव तावद्युक्तायुक्तत्वेन न विचार्यते। तबायमभिप्रायः। सर्व
था तावद् दृढमेषां स्मृतिन्यायेन प्रयोगित्वमवस्थितं तत्र शाक्यं
बाधितुं तस्यैव विदं मन्नं निरुप्यते । तद्यदि पूर्वपक्षो भविष्य
ति ततो ऽन्यप्रमाणाभावाद्विनियोजकश्रयनमानेन मलं कल्प
यिष्यामः । सिङ्घान्ते तु लिङ्गप्रकरणयोरेव मूलत्वाध्यवसानम् ।
अंथ वेवं पूर्वपक्षोऽपि प्रयोगः। खाध्यायाध्ययनविधिनेव मन्त्राः
पुरुषर्थाय नीयन्ते । तथा हि । दर्शपूर्णमासादिभिः क्रमप्रकर
एणाभ्यां यावत्संसश्यते तत्सर्वमपकारकत्वेन स्वी क्रियते । प्रयाजा
दिवाक्यानि मन्त्ररुपमपि च । तत्र प्रयाजादिवाक्यान्यर्थे समप्र्यं
चरितार्थानि खरुपसंसपशे सत्यपि प्रयोज्यतां न प्रतिपद्यन्ते ।
मन्न्नाः पुनः कर्मानेपयिकार्थाभिधायित्वात्तेनांशेनानपेक्षिता
स्तुतिविधिस्मृतीनां तु प्रकारान्तरेण सिद्धिरिति प्रयोगवचने
षां रुपमेवाङ्गीक्रियते । खाध्यायाध्ययनचोदनापि प्रत्यासन्नतर
मन्त्रखरुपमेव समर्य चरितार्थत्वान्न विप्रकृष्टमर्थाभिधानं या
वङ्गच्छति । प्रयाजादिवाक्येष्वपि तावद्रपग्रहणमेव प्रसक्तमासी
तत्त्वभिप्रेतार्थदानेन युक्तं न विच् तथा कि चिन् । शब्दे च
कार्यस्यासम्भवादर्थे कार्य विज्ञायते । मन्त्राणां तु शब्दएव स
भवति। श्रवश्यं ह्यर्थप्राधान्यपक्षेऽपि पुरुषः शब्दे नियोक्तव्यः।
तद्यापारोक्तरकालत्वादर्थाभिधानस्य । तस्माद्रीपमेवाङ्ग तथा च
तदर्थशाखादीन्युच्यन्ते। परिचारसूचक्रमानुरोधेन विपर्यस्ता
न्युदाहरणान्यभ्यादानात्प्रभृति दातव्यानि । भाष्यकारस्तु यथा
तथोदाश्तैरपि कार्यसिद्धिं मत्वैवमुपन्यस्तवान्। उरुप्रथा उस्
प्रथखेत्यादि। यथासाञ् इति (१) नोलोरोगाद्यपचतेन्द्रियस्य च


(१) या साक्षः पुरुषः परेण चेन्नीयत इति पाठः ‘स्व'पुस्तके ।