तत्त्वसङ्कयानम् २७ विधिरूपप्रतीतिंजनयित्वा पश्चात् निषेधरूपप्रतीतिं जनयति । अभाव प्रतीतिसामग्रीतु भावप्रतीतिवैपरीत्येनाभावप्रतीतिं जनयतीत्येवं भावा भावप्रतीतिसामग्रयोर्भदस्येति वा । भावस्यादौ विधिप्रतीतिसामग्री पश्चान्निषेधप्रतीतिसामग्री इत्यादिरूपेण सामग्रीभेदस्येतिवार्थः । श्री-भावाभावयोर्लक्षणं स्वयं दर्शयति । प्रथमप्रतीतावि त्यादिना । भावलक्षणे अभावे अतिव्याप्तिपरिहाराय प्रथमप्रतीता मित्यर्थः । न च सत्तादौ सत्तायाः अभावेन भावाभावविभाजकोपाध्यो रव्याप्तिरिति वाच्यम् । सत्तादावपि एकार्थसामाधिकरण्येन सत्तायाः विद्यमानत्वात्, अभावेतु सत्ताभावेऽपि अभेदेन संबन्धेन सत्ताभाव स-स्वरूपेणहीति । प्रथमत्वं प्रतीतौ विशेषणम् । तत्र यदा यदा स्वयं ज्ञायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति । आपातजै विमर्शजञ्चेति । आपातजप्रतीतिरेवेहोक्तप्रथमत्वविशेषितप्रतीतिशब्द वाच्या। न चव के इमे इति तत्पक्षविकल्पदोषः। अस्तीत्याकारिका प्रतीति रस्तीतिप्रतीतिरिति वदामः । न चात्रास्तीत्याकारकत्वं भावत्वघटितम् । येनात्माश्रयःस्यात् । किन्त्वखण्डस्यैव ज्ञानधर्मस्य तस्योररीकरणात् । न चात्र प्रमाणाभावः । भ्रमप्रमासाधारण्येन अस्ति रजतमिति ज्ञाना नन्तरं ममात्र रजतमस्तीति झाने जातमित्यबाधितानुभवस्य तत्र मान त्वात् । एवञ्चाविमर्शजास्तीत्याकारकज्ञानविषयत्वं भावस्य लक्षणम् । नास्तीत्याकारकापातजज्ञानविषयत्वमभावस्य लक्षणमित्युक्तं भवति। का–प्रथमेति । विधित्वेन प्रथमप्रतीतिविषयत्वं भावत्वम्। निषेधत्वेन प्रथमप्रतीतिविषयत्वमभावत्वमित्यर्थः । विधित्वनिषेधत्वे चाखण्डोपाधी । एतदभिप्रायेणैव भावत्वादिकमखण्डोपाधिरिति विज यीन्द्रतीर्थश्रीमञ्चरणैरुक्तम् । द्वितीयादिप्रतीतौ अभावस्यापि भावात् प्रथमेति। प्रथमत्वञ्च प्रतीत्यनुत्तरत्वम् । तेन द्वितीयादिप्रतीतेः तृतीयादिप्रतीतितः प्राथम्येऽपि न क्षतिः । नचाभावप्रतीतेः प्रतियोग्यादि प्रतीत्युत्तरत्वनियमात्प्राथम्यायोग । स्वविषयविषयकप्रतीत्यनुत्तरत्व स्यात्रविवक्षितत्वात् । न चान्योन्याभावे अव्याप्तिः । तत्प्रतीतेस्तदभिन्न भिंप्रतीत्युत्तरत्वनियमादिति वाच्यम् । भावस्वरूपाभावस्यालक्ष्य
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९४
दिखावट