पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी–प्रथमप्रतीतौ अस्तीत्युपलभ्यते यः स भावः । यश्च प्रथमोपलब्धौ नास्तीति प्रतीयते सोऽभावः । कुत एतत् । खरूपेण हि भावाभावौ िवधिनिषेधात्मानौ। रूपान्तरेण तु निषेधविधिरूपौ । तत्रापातजायां संविदि स्वरूपमेव भासते । द्वितीयादिप्रतीतौ रूपान्त रम् । कार्यगम्यत्वात्सामग्रीभेदस्य । प्रतियोगिशानाधीनत्वात् अभावज्ञानस्येति , भावः । यथाहुः । सद्भ्यां अधिकरणप्रतियोगिभ्यां अभावो निरूप्यत इति । रा–“प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्रहि' इति युक्तिपादीयानुव्याख्यानानुरोधेनाह । प्रथमप्रतीताविति । विषयि विषययोराधाराधेयभावो गौण इत्यभिप्रेत्य सप्तमीप्रयोगः कुतएतदिति। एतद्भावाभावव्यवस्थाकल्पनं कुतः कुतो मानादित्यर्थः । घटादेर्भाव स्यापि पुटादिर्नेति निषेधधीविषयत्वादिति भावः । भावाभावधीरेव प्रमाणे तथा प्रतीतौ च तत्तत्स्वरूपमेव नियामकमिति भावेनाह ॥ ॥ स्वरूपेणेति । विधीति । अपरप्रतिक्षेपपरप्रतिक्षेपरूपावित्यर्थः। नन्वस्तुनाम भावाभावयोः स्वरूपेण विधिनिषेधरूपताच । तथापि किं प्रकृत इत्यत आह । तत्रेति । नन्वापातजायां संविदिस्वरूपमेवावभासते रूपान्तरन्तु द्वितीयादिमतीतौ भासत इति कुतः । रूपद्वयप्रतीति सामग्रीमेदे मानाभावादित्यत आह । कार्यगम्यत्वादिति। प्रतीतिरूप कार्यभेद् एव तत्सामग्रीभेदै मानमिति भावः । पूर्वापरभावापन्नोक्तरूप द्विविधप्रतीतिरूपकार्यगम्यत्वाद्भावाभावप्रतीतिद्वयसामग्रीभावस्यादौ सा च प्रतीतिः साक्षात्काररूपा । तेन अभावपदाज्जायमानेऽभावबोधे तदपेक्षाभावेऽपि न नियमस्योक्तस्यातिक्रमः। भावस्यापि अभावविलक्षण त्वेन प्रतीतिः अभावरूपप्रतियोगिसापेक्षेति अभावस्यापि प्राधान्यात् स एवादौ किन्नोद्दिश्यत इत्यत आह । नियमेनेति । वि-प्रथमेत्यादि॥ सत्तावद्विशेष्यक-प्राथमिक-प्रतीतिविषयत्वं भावत्वम् । सत्ताभाववद्विशेष्यक-प्राथमिक-प्रतीतिविषयत्वं अभावत्व