तत्त्वसङ्थानम् २५ धाप्रत्ययान्तपदोक्त्येत्यर्थ । तत्कथमिति प्रश्नः । तत्र एवं. प्रश्श्रे सति परिहारमाहेत्यर्थः । इति पदाध्याहारेणाह । भावोऽभावश्चेतीति । भावस्य प्रथमोद्देशे निमित्तमाह । अभावप्रतीतिरिति । नियमेनेति । प्रतियोगिज्ञानं विना अभावप्रतीतेः कदाप्यनुदयादिति भावः । श्री-स्वतन्त्रो भगवान् विष्णुः इत्यस्य पुनरभिप्रायान्तरमाह ॥ अथवेति । साङ्कयाद्य इति आदिपदेन पाशुपतशैवशाक्ताद्यो ग्राह्याः । प्रधानादिकमित्यादिपदेन शिवशक्त्यादिकं ग्राह्यम् । द्विविध मित्युक्त्येति । द्विविधमित्यनेन स्वतन्त्रास्वतन्त्रतत्वयोर्विभाजकोपा धित्वरूपप्रकारत्वस्योक्तत्वात् स्वतन्त्रपरतन्त्रयोरवान्तरभेदोऽस्तीति सूचितम् । प्रकारत्वस्य स्वाश्रयव्यक्तिभेदंविना अनुपपत्ते । यद्धा परीक्षकैः तत्रैवहि प्रकारपुरस्कारेण विभागः कथ्यते यत्र प्रकारिणां बहुत्वेन विभागः कर्तु न शक्यते । यथा द्विविधं केवलं चतुर्विध मित्यादौ । एवञ्च प्रकृते प्रकारपुरस्कारेण द्वैविध्यकथने प्रकारि बहुत्वं प्राप्तमेवेति तेन सूचितमिति द्रष्टव्यम् ।। सूचितमिति।। सूचना भावे श्रोतुरवान्तरभेद्वत्ताज्ञानाभावेन तत्कथं इति आकांक्षाया अनु दयात् तं प्रति अवान्तरभेदकथनमसङ्गतं स्यादिति भावः । एव मुत्तरत्रापि ज्ञातव्यम् । भावस्य प्रथममुद्देशे प्राधान्यं निमित्तम् । प्राधान्येऽपि किं निमित्तमित्याशङ्कायामाह । अभावप्रतीतिरिति । वे—तन्निरासायेति । “न च कर्मविमामलकालगुणप्रभृतीशम चित्तनु तद्धियतः’ इत्युक्तरीत्या प्रधानादिस्वातन्त्र्यनिरासाय “स्वतन्त्रो भगवान् विष्णुरेक एवेत्युक्तमित्यर्थ '। नियमेनेति । न चव प्रागभावध्वंसप्रतीतेः प्रतियोगिरूप भावप्रतीत्यधीनत्वेऽपि अत्यन्तासत्प्रतियोगिकात्यन्ताभावस्य प्रतीतिः कथं भावप्रतीत्यधीनेतिवाच्यम् । तत्राप्यप्रसक्तस्य प्रतिषेधायोगेन प्रसक्तेश्च भ्रान्तिरूपतया अधिष्ठानज्ञानरूपभावप्रतीत्यधीनत्वादिति भाव । स-अभावप्रतीतिरिति। अभावत्वेनाभावप्रतीतिरत्रविवक्षिता । तेन प्रमेयत्वेन अभावप्रतीतेः प्रतियोगिभावप्रतीत्यनधीनत्वेपि न दोषः ।
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९२
दिखावट