२४ टी–अथवा स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यमङ्गीकुर्वाणा अपि साङ्खयादयः प्रधानादिकं स्वतन्त्रतत्वमातिष्ठन्ते । तन्निरासाय इदमुदितमिति । द्विविधमित्युक्त्या परतन्त्रतत्वमवान्तरभेदचदिति सूचितम् । तत्कथमिति तत्राह । ॥ भावाभावौ द्विधेतरत् ॥ १ ॥ इतरत् खतन्त्रात् । अस्वतन्त्रतत्वं द्विधा। कथम् ? भावो अभावश्चेति। अभावप्रतीतिः भावप्रतीत्यधीना नियमेनेति प्राधान्यात्प्रथमं भाव स्योद्देशः । रा-विष्णुरित्युक्तरर्थवत्वाय योजनान्तरमाह । अथवेति । ॥ साङ्कयादय इति । साङ्खयशैवहैरण्यगर्भप्रभृतयः। प्रधानादिकं प्रधान शिवहिरण्यगर्भस्कन्दसूर्यशक्त्यादिकमित्यर्थः । आतिष्ठन्ते अभ्युप गच्छन्ति । उत्तरवाक्यमवतारयति । इत्युक्त्येति । विधार्थे विहित अपवादविषयातिरिक्ते अवान्तरभेदससूचनेनाप्युपपन्ना, नापवादविषये अवान्तरभेदं सूचयति । यथा “दुःखस्पृष्टं तद्स्पृ ष्टमिति द्वेधैवचेतनम्' इत्यादौ । तथा च कुतः स्वोक्तिविरोध इत्यादि । स-खातन्त्र्यं िवष्णोरेव कुत इत्यत उतं भगवानिति। भगवांश्च स उच्यते यः “ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञान वैराग्ययोश्चैव षण्णां भग इतीरणे 'त्युदीरितैश्वर्यादिषङ्गणः । ततश्च विष्णुः-स्वतन्त्रः-भगवत्वात् । व्यतिरेकेण यज्ञदत्तवदिति प्रकारेण भगवत्वं स्वातन्त्र्यस्योपपाद्कं साधकं भवतीति भावः । प्राधान्यात् स्वतन्त्रतत्त्वस्य विष्णोरादौ श्टङ्गग्राहिकया निर्देशेनैवार्थात् सूचितं तदितरस्यास्वातन्त्र्यै कण्ठत आह ।।अन्यदिति। अत्र भगवानिति विष्णो रिति टीका विष्णुशब्दस्य रूढत्वं भगवच्छब्दस्य यौगिकत्वमभ्युपेत्य प्रवृत्ता । यदातु वैपरीत्यं विवक्षितं तदा विष्णुरिति भगवतः स्वातन्त्र्योप पादकमिति टीकाविन्यासो बोध्यः । ततश्च “भगवान्भगहा नन्दी? त्युक्तदिशा भगवान् हरिः—खतन्त्रः —विष्णुत्वात्-व्यतिरेकेण चैत्र वदिति प्रयोगो बोध्यः । विष्णुत्वात्-सर्वव्यापित्वात् ।
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९१
दिखावट