विरोधश्च । अतो द्विविधमित्युक्तम् । ततश्च स्वतन्त्रमपि अनेकविधं स्यादित्यत इदमुक्तम् । चेतनानाञ्च बह्वीनां परतन्त्रव्यक्तीनां प्रमाणप्रमितत्वेन तद्विरोध इत्यर्थः । । वक्ष्यमाणेति । 'भावाभावौ द्विधेतरत्' इति परतन्त्रविभागस्योच्य मानत्वेन परतन्त्रव्यक्तरेकत्वे तद्विरोधःस्यादित्यर्थः । द्विविधमित्युक्त मिति । स्वतन्त्रास्वतन्त्ररूपप्रकारद्वयोपेतमित्यर्थः । ततश्चेति । स्व तन्त्रास्वतन्त्रत्वयोः प्रकारत्वोक्त्या प्रकारवत्वस्य स्वाश्रयव्यक्तिभेद सापेक्षत्वात् परतन्त्रतत्ववत् स्वतन्त्रतत्त्वमपि अनेकंस्यादित्यर्थः । इद मुक्तमिति । स्वतन्त्रो भगवान्विष्णुरित्येकवचनेन तस्यैकत्वोक्तेरुक्त शङ्कापरिहृतेति ज्ञातव्यम् । वि-ननु प्रथमं इतिशब्दाध्याहारं विनैव तत्त्वं स्वतन्त्रमस्वतन्त्र मिति अङ्किष्टान्वयेनैव द्वैविध्यलाभे द्विविधमित्यनर्थकम्। अन्यदखतन्त्र मिति शेषदानं चाधिकमित्यस्वरसात्कल्पान्तरमाह--अथवेति । वें-अत्रेति । तत्त्वविवेके निदषाखिलसद्वणत्वस्य स्वातन्त्र्यो पपादकस्य सत्वात् 'भगवानि 'त्येतत्पूजार्थमिति व्याख्यातम् । अत्र पुनः स्वातन्त्र्योपपादकस्यान्यस्याभावात् तदुपपादकमेव तदिति भाव । इदमुक्तमिति । स्वतन्त्रो भगवान् विष्णुरेक एवेत्युक्तमित्यर्थः । एतेन अस्वतन्त्रमिव स्वतन्त्रमपि अवान्तरमेदवदिति द्विविधमित्यनेनो कत्वा 'स्वतन्त्रो भगवान् विष्णु' रित्यनेन स्वतन्त्रव्यक्तेरेकत्वोक्तौ स्ववचनव्याहृतिरित्यपास्तम् । भावानवबोधात् । नहि प्रकारद्वैविध्योक्तिः प्रकारिणोप्यवान्तरभेदस्यवाचिका, येन 'द्विविध'मित्युक्त्या खतन्त्रस्या प्यवान्तरमेदो वचनवृत्या उक्तः स्यात् । नापि प्रकारद्वैविध्योक्तिः प्रकार प्रकारिणोः अवान्तरभेदस्य व्याप्यम् । येन द्विविधमित्युक्त्या स्वतन्त्र स्याप्यवान्तरमेदोऽप्यर्थादुक्तस्यात् । किन्तु आश्रययोः व्यक्यैक्य प्रापकप्रकारिद्वित्वमनुक्त्वा ‘द्विविधम्' इति प्रकारद्वित्वोक्तिः प्रकार्य वान्तरभेदस्य सूचिकैव, साचापवादाभावे प्रकारिणोऽशेषस्यावान्तरभेदं सूचयति-यथा 'भावाभावौ द्विधेतरत्' इत्यादौ । सति तु अपवादे
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९०
दिखावट