पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-अत्र भगवानिति विष्णोः स्वातन्त्र्योपपादकम् । अन्यद् स्वतन्त्रमिति शेषः । अथवा द्वे तत्त्वे इत्युक्ते स्वतन्त्रमिव परतन्त्रमेका व्यक्तिरेव प्रसज्येत । तथा च प्रमाणविरोधो वक्ष्यमाणविभाग लक्षणम् । यत् स्वसत्तादौ स्वतन्त्रं स्वाधीनै न भवति परापेक्षमिति यावत् । तत् अस्वतन्त्रमिति अस्वतन्त्रतत्वलक्षणमपि द्रष्टव्यम् । (अत) तत एवेति । प्राधान्यादववेत्यर्थः । रा-ननु स्वतन्त्रो विष्णुरित्येतावतैव पूतो भगवानितिपदं व्यर्थमित्यत आह । अत्र भगवानितीति । स्वातन्त्र्योपपादकमिति । तेन समप्रैश्वर्यादिषड्गुणवत्वस्य लाभादिति भावः । मूले अस्वतन्त्र तत्त्वप्रदर्शकपदाभावादाह । अन्यदस्वतन्त्रमिति शेष इति॥ ‘सङ्कयायाः विधार्थे धा' इत्युक्तस्य द्विविधमिति धा प्रत्ययस्यार्थवत्वं वक्तुमाह ॥अथवेति। तत्रावान्तरभेदसूचक धा प्रत्ययाभावादिति भावः । तथा चेति । एकव्यक्तिप्रसक्तितश्च प्रत्यक्षादिप्रमाणविरोध इत्यर्थः । अत इति । अवान्तरानेकभेदसूचनायेत्यर्थः । इत्युक्तमिति। अवान्तरानेक भेदोपेते द्वे तत्वे इत्यर्थलाभाय घा प्रत्ययान्तपदं प्रयुक्तमित्यर्थः । अस्त्वेवं तथापि किं प्रकृत इत्यत आह ।।ततश्चेति। धाप्रत्ययान्तप्रयोगतश्चेत्यर्थः। परतन्त्रमिवेति योज्यम् । श्री-ननु उत्तरत्रास्वतन्त्रविभाग एवोच्यते नतु इदं अस्वतन्त्र तत्त्वमिति निर्दिश्यते । अत आह । अन्यदिति । स्वतन्त्रो भगवान्विष्णु रितिवचनस्याभिप्रायान्तरमाह ॥ अथवेति । इत्युक्त इति । द्विविध मित्यनुक्त्वेति शेषः । प्रमाणविरोध इति । ब्रह्मादिचेतनानां घटाद्य स-परतन्त्रत्यादना ॥ परः तन्त्र-प्रधान यस्य तत् तथा । “तन्त्रै प्रधाने सिद्धान्ते कुटुम्ब' इति विश्वः । “तन्त्रै प्रधाने सिद्धान्त' इत्यमरः । तन्त्रै कुटुम्बकृत्येस्यादित्यारभ्य “प्रधाने तन्तुवायेचेति' तट्टिप्पणीसंगृहीताभिधानश्च ।