पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ टी-तथा च प्रतीतिः । अस्त्यत्र घटः स न शुछ इति । एवं नास्त्यत्र घटः अस्ति घटाभाव इति । ननु स्वतन्त्रतत्वं भावोऽभावोऽ न्यद्वा । नाद्यद्वितीयौ । भावाभावयोः परतन्त्रप्रभेदत्वात् । न तृतीयः । व्याघातात् । मबम् । भावलक्षणाक्रान्तत्वात् । परतन्त्र भावाभावतया द्विधैव न पुनरेकविधं नापि त्रिविधमित्येवं परो विभागः न पुनः परतन्त्रमेव भावाभावात्मकमिति । विति विशेषणम्। अभावलक्षणे भावे अतिव्याप्तिपरिहाराय प्रथमोप लब्धौ इत्युक्तम् । एवं प्रथमेतिविशेषणात् उभयत्र परस्परातिव्याप्ति परिहारं प्रश्नपूर्वकमुपपादयितुमाह । कुतएतदित्यादिना ।। लक्षण द्वयेऽपि प्रथमेति विशेषणं कस्मात् दत्तमित्यर्थः । उत्तरमाह । स्वरूपेण हीत्यादिना ।। रूपान्तरेण धर्मान्तरेण । निषेधेति । भावोऽपि निषेध रूपः अभावोऽपि विधिरूप इत्यर्थः । आपातजायामिति। निर्विकल्पक रूपायामित्यर्थः । प्राथमिकज्ञान इति यावत् । ननु सामग्रीवैचित्र्य कल्पने किं मानं इत्यत आह । कायेति । रा–कार्यमेवासिद्धमित्यत आह । तथाचेति । उक्तरूपेणास्ति च प्रतीतिरित्यर्थः । अस्वतन्त्रे भावाभावभेदात् द्विविधमिलयङ्गीकारे स्वतन्त्रं भावो न स्यादित्याशयेनाशङ्कते । नन्विति । अन्यद्वा भावा भावाभ्यां अन्यद्धेत्यर्थः । परतन्त्रप्रभेदत्वात्। परतन्त्रविशेषत्वादित्यर्थ । ॥ व्याघातादिति । भावोनेत्युक्ते अभाव इति प्राप्त पुनरभावो नेत्युक्ते व्याघातः । तथा अभावो नेत्युक्ते भाव इति प्रातं पुनः भावो नेत्युक्त व्याघातः इत्यर्थः । भावलक्षणेति । अस्ति ब्रह्म। नारायणो वा इदमग्र असीत् ब्रह्म वा इदमग्र आसीत् इत्यादिरूपेण प्रथमप्रतीतौ विधितया प्रतीयमानत्वरूपभावलक्षणोपेतत्वाद्भावत्वमेवेत्यर्थः । तर्हि भावाभावौ त्वात् । अभावस्वरूपे च धर्मिप्रतीतिमादायैव लक्षणसङ्गतः । अत एव यस्तु नास्तीति प्रतीयते सोऽभाव इत्युक्तम् । अन्यथा यस्तुनेति प्रतीयत इत्येवावक्ष्यत् ।