यद्यपि भावाभावतया वा चेतनाचेतनत्वेन वा नित्यानित्यतया वा अस्य द्वैविध्यं शक्यते वक्तुम् । तथाप्यस्य वैयथ्र्यादयमेव विभागो न्यायः ।। सम्भवान्न कस्यापि सत्ताप्रतीतिः प्रवृत्तिश्चस्यादित्यर्थः । तदाह सूत्र कारः । 'अनवस्थितेरसम्भवाञ्च नेतरः ’ (१-२-१७) इति । आगमेति। पृथिवीमन्तरो यमयति आत्मानमन्तरो यमयति' इत्याद्यागमविरोध इत्यर्थः । “सर्वमसौतुहरिर्यमयेदिति वैदिकमस्तिवचः' इत्युक्तरिति भावः । एवञ्च तत्त्वपदेन द्विविधपदेन स्वतन्त्रास्वतन्त्रपदाभ्यां व्यावर्तितं पक्षचतुष्टयं इष्यत इति पदसूचितयुक्तिभिः निरस्य इदानीं एवंविध विभागमाक्षिप्य समाधत्ते । यद्यपीत्यादिना ।। स्वतन्त्रतत्त्वस्येत्यत प्राक्तनेन ग्रन्थन । अस्यात | तत्त्वस्यत्यथः । श्री–॥ पारतन्त्र्येति । भृत्यादेः स्वाभ्यधीनतायाः पुत्रादेः पित्राद्यधीनतायाः स्वप्रत्यक्षसिद्धत्वेन तद्विरोध इत्यर्थः । “यदि नाम न तस्य वशे सकलं कथमेवतु नित्यसुखं न भवेत्' इति भगवत्पादीयं वचनै मनसि निधाय दूषणान्तरमाह । नित्यसुखादीति । आदिपदेन ‘इतर व्यपदेशाद्विताकरणादिदोषप्रसक्तिः ' (२-१-२२) इति सूत्रोक्तहिता क्रियादिप्रसक्तदोषोऽपि ग्राह्य । तथा च सर्वस्यापि स्वतन्त्रत्वे नित्य सुखं स्यात्। स्वतन्त्रकर्तुरपि हिताक्रियादिदोषप्रसङ्गचे । सर्वस्यापि पारतन्त्र्ये पराधीनत्वाविशेषादस्यायं नियामकः तस्यान्यः तस्याप्यपर इत्यपर्यवसितानन्तव्यक्तिपरंपरया उत्तरोत्तरनियमनासिध्या पूर्वपूर्व नियमनासिद्धमूलक्षयकरानवस्थादोषादित्यर्थः । अभ्युपेत्यैतदुक्तम् । वस्तुतस्तु पारतन्त्र्याविशेषादन्येनान्यनियमनमेवासम्भवीत्याह । असै भवादिति । एकेनान्यस्य नियमनासम्भवान्नकस्यापि सत्ताप्रतीतिः प्रवृत्तिश्चस्यादिति राघवेन्द्रीये ॥ अनवस्थितेरसम्भवाचेति । सर्व स्यापि पारतन्ञ्ये परस्यापि पारतन्त्र्यम् । एवमन्यस्यापीत्यनवस्थिते
पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८६
दिखावट