पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी-यदि वा सर्वमेव स्वतन्त्रं स्यात्तदा पारतन्त्र्यादिप्रतीति विरोधः । नित्यसुखादिप्रसङ्गश्च । यदि वा परतन्त्रमेव तत्त्वं भवेत्। तदाऽनवस्थितेरसम्भवाच न कस्यापि सत्तादिकं स्यात् । आगमविरोधश्च नाङ्गीक्रियत इति द्वितीयमनूद्य दूषयति । यदिचेति । भेदोपलम्भेति।। घटपटादिभेदावगाहि प्रत्यक्षोपलम्भविरोध इत्यर्थः । भेदोपलम्भस्य भ्रान्तित्वमाशङ्कय निराकरोति । तद्भान्तितायाञ्चेति । तस्य भेदोप लम्भस्य भ्रान्तितायामित्यर्थः । वाच्यमिति । नचतदस्तीति वाक्य शेषः । ननु कथं नास्ति भेदः । भेदः किं भेदिभ्यां भिन्नो वा अभिन्नो वा भिन्नाभिन्नो वा । नाद्यः सोऽपि भेदो भिन्न इत्यनवस्थानात् । न द्वितीयः। तत्तच्छब्द्योः पर्यायत्वापत्या घटो अभिन्न इति सहप्रयोगाभावापत्तेः । न तृतीयः विरोधात् । अतो बाधकाद्वेदः आपातरमणीयाविद्या विलसित एवेति तत्प्रतीतिभ्रमरूपैवेत्यत आह । तचेति । भेदस्य धर्मिस्वरूपत्वेऽपि तत्तच्छब्दयोः विशेषबलेनापर्यायत्वम् । अन्यथा अनयव युक्त्या अभेदोऽपि अविद्याकल्पितःस्यात् इत्येवं निराकृत मित्यर्थः । तत्त्वस्यानेकप्रकारत्वेऽपि स्वतन्त्रत्वेनास्वतन्त्रत्वेन सर्वस्य एकः विधत्वेन द्वैविध्याभावाद्वेति तृतीयमनूद्य दूषयति । यदिचेत्यादिना ।। रा–। पारतन्त्र्यादीति । आरब्धकार्यप्रतिहत्या अनभिलषि तानिष्टप्राप्त्या च पारतन्ञ्यानुभवात्। आदिपदेन हिताकरणाहितकरण कृत्स्रप्रसक्त्यादिग्रहः । नित्यसुखादीति । 'यदिनामनतस्यवशेसकलं कथमेवतुनित्यसुखं न भवेत्' इत्युक्तेरिति भावः । आदिपदेन दुःख निवृत्तिः । अनवस्थितेरिति । पराधीनत्वाविशेषादस्यायं नियामकः तस्यान्यः तस्याप्यपर इति अपर्यवसितानन्तव्यक्तिपरम्परापत्या पूर्वपूर्व नियमनासिद्धया उत्तरोत्तरनियमनासिद्धेः मूलक्षयकरानवस्थादोषा दित्यर्थः। अभ्युपेत्येदमुदितम्| वस्तुतस्तुपरतन्त्रत्वाविशेषाद्न्येनान्यस्य नियमनमेवासम्भवीत्याह । असम्भवादिति । एकेनान्यस्य नियमना