पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी—परतन्त्रप्रमेयं स्वतन्त्रप्रमेयात्ततया विदितं हि (निश्श्रेय) निःश्रेयसाय भवति । तथा च प्रकरणान्ते वक्ष्यति । अन्यथा गङ्गा वालुकपरिगणनवदिदं तत्त्वसङ्कवानमपार्थकं स्यात् । अतः स्वतन्त्रा रित्यर्थः । अभ्युपगम्यवेदमुदितम् । नियामकजीवस्यापि प्रेर्येण जीवत्व साम्यात्प्रेरणासम्भवाञ्चेत्यर्थः । ननु भवद्भिरप्युत्तमजीवानामधमजीव नियामकता अङ्गीकृतैव । अतः तत्रापि सममिदं दूषणमितिचेन्न। यथा सति राज्ञि मण्डलेशे प्रजानां तच्छक्त्या नियम्यनियामकभावः संभवति । नत्वराजके लोके । तथा अस्मत्पक्षे जीवानां स्वतन्त्रेश्वरशक्त्या जीवान्त रनियामकत्वमुच्यते न परपक्षे । स्वतन्त्रवस्त्वनङ्गीकारादिति भावः । यथोक्तं सूत्रकृता । “अनवस्थितेरसम्भवाञ्च नेतरः' (१-२-१७) इति । व्याख्यातचैतद्भाष्ये । 'जीवस्य जीवान्तरनियामकत्वे अनवस्थिते साम्यादसम्भवाञ्च न जीवः । नियमे प्रमाणाभावादनीश्वरापेक्षत्वाञ्चेति'। सत्तादिकं स्यादित्यत्रादिपदेन प्रमितिप्रवृत्योहणम् । आगमविरोध श्रेति । सर्वस्याधिपतिः सर्वस्येशानः सर्वस्य वशीत्यादि खतन्त्रेश्वर प्रतिपाद्कागमविरोधः । प्रकारान्तरेण द्वैविध्यसम्भवाद्वेति चतुर्थ विकल्पमनूद्य दूषयति । यद्यपीत्यादिना । अस्येति | भावाभावत्वा दिना तत्त्वद्वैविध्यकथनस्येत्यर्थः । वैयथ्र्यादिति। भावाभावाद्युक्तरीत्या तत्त्वद्वैविध्यज्ञानस्य मोक्षासाधनत्वादित्यर्थः । रा-न्याय्यतां व्यनक्ति ॥ परतन्त्रेत्यादिना। कुत एतदित्यत आह ।।तथा चेति। उक्तप्रकारेण वक्ष्यति च 'सृष्टिस्थितिश्च' इत्यादिना सर्वस्येशायत्तत्वमित्यर्थः । तादृशज्ञानं निःश्रेयसहेतुरिति तत्रानुक्तावपि तदुक्तिवैयथ्यन्यथानुपपत्या तलुभ्यत इति भावः । परतन्त्रेत्यादि खोक्तार्थे स्वयं युक्तिञ्चाह । अन्यथेति । एवं विभागाकरणेति वा । पराधीनतया जगतो झातव्यत्वाभाव इति वा । तथा झानस्य निःश्रेयस हेतुत्वाभाव इति वार्थः । अत इति । स्वातन्त्र्यादिभेदेन विभागस्य