पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विरोधः । यथोक्तं भगवत्पादैः । “कोटित्रयं स निजघान तथासुराणां गन्धर्वजन्मभरतेन' इति । इत्यादावुक्तत्वात्कथं पञ्चधेत्युक्तमित्यत आह-1। गन्धर्वादीनामिति । अत्र देवपदेन तात्विकानामिव कर्मजानामपि देवानां ग्रहणम्,

  • तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि ।

आजानदेवास्ते प्रोक्ताः' इत्युक्तः तुम्बुरुप्रमुखशतगन्धर्वाणां, उर्वश्याद्यष्सरसां चाजानदेवेष्वन्तर्भावात् । तुम्बुरुप्रमुखेभ्यः उत्तमगन्धर्वाणां चाष्टानां, “कर्मदेवगणा अष्टगन्धर्वास्तत्परे शतम् । आजानदेवाः' इत्युक्त्या मुक्तकर्मदेवेष्वन्तर्भावात् । तद्न्येषां देवगन्धर्वादीनां तारतम्योक्तिपरेऽस्मिन् विभागवाक्ये विवक्षा विरहात् न *क्षितिपा' इत्यादिग्रन्थान्तरविरोध इत्यर्थः । नहि विभाग वाक्यान्तरस्येव अस्य वाक्यस्य न्यूनाधिकसंख्यावान्तरव्यवच्छेदे तात्पर्ये किन्तु मुक्ता देवष्यदिभेदेन तारतम्योपेता एवेत्यत्रैव । न चात्र ग्रन्थान्तरविरोधोऽस्तीति भावः । अत एव तत्त्वविवेके ह्यत्र * ब्रह्मान्ता उत्तरोत्तरमुक्ताः शतगुणाः प्रोक्ताः' इति तारतम्यमेवोक्तम् । इदमपि वाक्यै तेनेत्यादिना मोक्षे तारतम्याभावमतनिराकरणपरत्वेन व्याख्यात मिति बोध्यम् ॥ का-तमोयोग्या इति । तमः प्रापकदृढद्वेषादिरूपा इत्यर्थः । नित्यसंसारिण इति॥ मध्यममनुष्याणां लिङ्गभङ्गानङ्गीकारे नित्यलिङ्गा लिङ्गितत्वं नित्यसंसारित्वम् । तदङ्गीकारेतु सुखदुःखाभिव्यञ्जकभक्ति द्वेषादिरूपत्वमेवतत् । “नित्यावर्तास्तु मध्यमाः' इत्यस्यापि नित्यं मिश्र फला इत्यर्थः । प्राप्ताप्राप्तफलकत्वेन तेषामविभागस्तु सर्वदा संसार समानधर्मत्वाभिप्रायेणैवेति ज्ञेयम् । । प्रकीर्तिता इत्यत्रागमसम्मति माचष्ट । सचागमः * श्रृण्वे वीरमुग्रमुग्रं दमायन्नन्यमन्यमिति नेनीय मानः एधमानद्विडुभयस्य राजाचोष्कुयते विशइन्द्रो मनुष्या । सात्विका राजसाचैव तामसास्त्रिविधा जनाः । सात्विकास्तत्रदेवाद्याः राजसाः सृष्टिगास्तथा ।