पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टी- दुःखसंस्थाः मुक्तियोग्यायोग्यभेदाद्दिधा इत्युक्तम् । तत्रमुक्तप्रभेदं योग्येष्वतिदिशति । ॥ एवं विमुक्तियोग्याश्च ॥ देवष्यदिभेदेन पञ्चधा इत्यस्य अनुकर्षणार्थश्चकारः । मुक्त्ययोग्यविभागमाह । तमोगाः स्मृतिसंस्थिताः ॥ ५ ॥ इति द्विधा मुक्त्य योग्याः । तमोगाः=तमोयोग्याः । न तु प्राप्ततमसः । वक्ष्यमाणविभाग विरोधात् । सृतिसंस्थिताः=नित्यसंसारिणः । अयोग्यतातिशय नुसारेणोद्देशः । तमोयोग्यानां प्रभेदमाह । दैत्यरक्षःपिशाचवकाः । मत्यधमाश्चतुधैव तमोयोग्याः प्रकीर्तिताः ॥ ६ ॥ मत्यधिमा इत्यतः परं इतिशब्दोऽध्याहार्यः । अप्रसिद्धत्वादस्य भेदस्या श्रद्धेयत्वं निवारयितुमेवशब्दः । प्रकीर्तिता इत्यत्रागमसंमतिमाचष्टे । सचान्यत्रोदाहृतो द्रष्टव्यः । रा—वक्ष्यमाणेति।। दैत्येत्यादिवक्ष्यमाणेत्यर्थः । अयोग्यतेति। मुक्तितत्साधनादावयोग्यतातिशयेत्यर्थः । स चान्यत्रोदाहृत इति । मत्र्याधमास्तामसास्तु दैत्यरक्षःपिशाचकाः । स्वरूपभूतविद्वेषा अधो गच्छन्ति ते तमः । इत्यादि भाष्यादावुदाहृत इत्यर्थः । वीरो=अध्यवसायान्तगामी परमेश्वरः सर्वानुग्रान्-दैत्यादीन् , दमयन्, तद्विरुद्धान्, देवादीन्, संसारमति क्रम्य, खपदं नयन् वेदादिषु श्रूयते । स एव मुक्तामुक्तनियामको मध्यम संसारे एंवावर्तयति। नतु साधनानुष्ठानेऽपि मोचयति यत स्वायोग्यप्रयतादेधमानान् द्वेष्टीति श्रुत्यर्थः । मत्यधमेयो दैत्यादीनां कुत्सितार्थकप्रत्ययेन बेहुतरायोग्यत्वं सूचितम्। अत एव तेषां पृथगुक्ति रिति ज्ञेयम् ।