पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेन ये मोक्षे तारतम्यं न मन्यन्ते तन्मतं निराचष्टे । गन्धर्वादीनां केषाञ्चिदेष्वेवान्तर्भावात्केषाञ्चिदविवक्षितत्वान्नग्रन्थान्तरविरोधः । श्री-पितृपत्वं एकोपाधिरिति भ्रान्ति निवारयितुमाह । पांतीति पा इति । तथा चव पा पालन इति धातोः पाः पालकाश्चक्रवर्तिन इत्यर्थः । अवधारण इति । इत्येव नान्यथेत्यवधारण इत्यर्थः । तेनेति । मुक्ताः देवऋष्यादिभेदेन पञ्चधा तरतमभावेन स्थिता नान्यथेति वचने नेत्यर्थः । ये ।। रामानुजाः । ननु गन्धर्वादीनामपि ग्रन्थान्तरे मुक्ते रुक्तत्वात् तेप्यत्र कुतो नोक्ताः । अतो विभागन्यूनतेत्यत आह ॥ गन्धर्वादीनामिति । आदिपदेन अप्सरस्त्रीणामपि ग्रहणम् ।एष्वंत भवादिति । एषु-ऋषिपितृपादिषु 'गन्धर्वाद्यास्तदन्तरा' इति वच नादिति भावः । केषाञ्चिदिति। असुरगन्धर्वासुराप्सरस्त्रीणामित्यर्थः। आसुरगन्धर्वा एव न संतीति वदतां श्रीमन्महाभारतात्पर्यनिर्णय का-तेनेति । यद्यपि पञ्चविधैवेत्यवधारणेन मुक्तानामेकजातीय त्वनिरास एव लभ्यते । तथापि तारतम्योपपादकत्वेनैव पञ्चविधत्वाव धारणात्साम्यनिरासोऽपि सिध्यति । तथाहि ‘ब्रह्मान्ता उत्तरोत्तरम् । मुक्ताशतगुणोद्रिक्ता' इति तत्त्वविवेकोक्तं मुक्तामुक्ततारतम्यमनुपपन्नम् । युवास्यादित्यादिमूलश्रुतौ मनुष्यत्वादिजातिविशिष्टानामेव तारतम्यो क्तेः । मुक्तौ च तदपायादिति मतै न श्रद्धयम् । मुक्तानामपि मनुष्य त्वादिजातिविशिष्टत्वे तारतम्योपपत्तेरिति । अत्र देवाद्यनन्तर्भूताशेष मुक्तानां मनुष्योत्तमेष्वन्तर्भाव । देवादिभिन्नसचेतनमात्रस्य मनुष्योत्त मपदेनविवक्षितत्वादित्यवधेयम् । वे-निराचष्ट इति । यद्यपि देवर्षीत्यादिवाक्ये विभाग एव प्रतीयते स्फुटं, न तारतम्यं, तथापि-संसारदशायां तारतम्योपेते ब्रह्मादौ प्रसिद्ध देवष्यदिसंज्ञयैवोद्देश्यतारतम्यमुक्तप्रायमिति भावः । ननु गन्धर्वाप्सर प्रभृतीनामपि मुक्तप्रभेदत्वेन “क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिरा आजानजाः कर्मजाश्च देव इन्द्रःपुरन्दरः ॥'