पृष्ठम्:तत्त्वसङ्ख्यानम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वक्तव्यः । सत्यम् । योग्यायोग्यभेदस्य दुःखसंस्थेष्वेव भावात्तदभि धानानन्तरं मुक्तियोग्यभेदकथनस्य सौकर्यात्क्रमोलंघनम् । इदानीं मुक्तानां प्रभेदमाह । देवर्षिपितृपनरा इति मुक्तास्तु पञ्चधा ॥ पान्तीति पाः चक्रवर्तिनः । नराः मनुष्योत्तमाः । तुशब्दोऽवधारणे । भेदमादावभिधाय पश्चाद्दःखसंस्थानां योग्यायोग्यप्रभेदमुक्त्वा मुक्ति योग्यानामपि पुनः देवष्यदिभेदेन पञ्चविधत्वमुच्येत । तदोक्तिगौर वम् । यदि तु दुःखसंस्थानां योग्यायोग्यविभागकथनानन्तरं विमुक्तानां पञ्चविधत्वमुक्त्वा एवं विमुक्तियोग्याश्चेति मुक्तियोग्येषु तदति दिश्यते तदा उक्तिलाघवमिति । ननु कथमेवमतिदेष्टुं शक्यम् । विमुक्तानां पञ्चविधत्वकथनानन्तरं विमुक्तानामपि दुःखसंस्थवत् योग्यायोग्यप्रभेद्वत्वे मुक्ताः द्विविधाः योग्याः अयोग्याश्चेति तत्कथन स्यैवोचितत्वेन मुक्तानां पञ्चविधत्वकथनानन्तरं एवं विमुक्तियोग्यश्च त्यतिदेशानवकाशात् । तथा च मुक्तानां पञ्चविधत्वकथनानन्तरं मुक्तानां योग्यायोग्यविभागमुक्त्वा अनन्तरमेवं विमुक्तियोग्याश्चेत्यति देशात् गौरवमेवेत्यत उक्तम् ॥ योग्यायोग्यभेदस्य दुःखसंस्थेष्वेव भावादिति । तथा च मुक्तेषु दुःखसंस्थवत् योग्यायोग्यभेदस्याभावेन विमुक्तानां देवऋष्यादिभेदेन विभागकथनानन्तरमेवं विमुक्तियोग्या श्रेत्यतिदेशो युक्त एवेत्युक्तिलाघवमुपपन्नमितिभावः । रा-॥ पान्तीति पा इति । पा रक्षणे पचाद्यच् आतो लोप इटिचेत्यकारलोपः । केषाञ्चिदिति । । देवगन्धर्वाणां कर्मजाजानजदेवा नावेत्यर्थः । केषाञ्चिदिति ॥ मनुष्यगन्धर्वा(दीनामि)णामित्यर्थ ॥ ग्रन्थान्तरेति ॥ तैत्तिरीयादिग्रन्थान्तरेत्यर्थः ।