पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ प्रौष्ठपद् द्वितयं विष्णुः केचित् सौम्यमिति स्थितिः । इति ते कथितं वत्सान्यच्च वक्ष्यामि तत्वतः ॥ १७१ ॥ इति श्रीबुहासिद्धान्ते तीयोऽध्यायः ॥ २ ॥ ब्रह्मसिद्धान्ते - - विक्षेपस्फुट क्रान्तेरुद क्षिप्तस्ततः पुरः | उदेति पश्चादेत्यस्तं वा चितस्तत्तदन्यथा ॥ १ ॥ पश्चिमस्थः प्रागुदेति पश्चात् प्राक्स्थोऽस्तमेति हि । अन्यमा चेदन्यथा हकर्म यत् कल्पितं तथा ॥ ५॥ विक्षेपस्तत्फलं स्याद्यद्यघ्रभा द्वादशोऽद्गुलम् | खमध्यग्रहयोर्मध्यं नतं क्षितिजकल्पना ॥ ३ ॥ तन्नतातृ तहिनार्धं च फलं प्राक्सिममेव हि । ग्रहणादन्ययोगे च कालभेदे तथैव हि ॥ ४ ॥ श्टङ्गोन्नत्युदयास्तेषु हक्कमदाविदं स्मृतम् । क्रमचापोरक्रमज्याभ्यां क्रान्तिः सत्रिग्रहस्य च ॥ ५ ॥ त्रिज्या चेन्मध्यदृष्टानां क्षेपलिप्तान्तरे पुनः । टक्कर्मस्यो नतः प्राक्स्य द्रव पञ्चादिति स्थितिः ॥ ६ ॥ दृश्यते यः क्रान्तिदेशो भेदाभेदे यथाक्रमम् । तत्तन्मेरु दिगंशानामल्पः स्याद् दृश्यते तथा ॥ ७ ॥ स्वतनं मध्यकचायामधिक स्वल्पमन्यगम् | तदर्घमुकमज्यैषा तादृक् खण्डैर्हि साधिता ॥ ८॥ द्वादशोज्या सभै: खण्डैरुक्तं च धनुरुत्क्रमम् ।