पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्याय । 7108 सर्वेषामविशेषेण पूर्वेव फलदायिनी । फाल्गुनदादशी पुष्ययुक्ता गोविन्दसंज्ञिया ॥ १८ ॥ शुका शुक्र द्वादशी तु माघ भीमाऽभिघा वयम् । आषाढे गयनाख्यास्यात् प्रबोधाख्या च कार्त्तिके ॥१०० ॥ एकाव्दाद द्वादशीपुण्यं पञ्चैता दधुरेकशः । पारणं द्वादशीविदत्रयोदश्यां निहन्ति च ॥ १०१ ॥ छादगदादशीपुण्यं परायां प्रयच्छति । सिंहर्के रोहिणीयुक्ता कृष्णा भाद्रपदाष्टमी ॥ १०३ ॥ राज्यर्धपूर्वपरगा जयन्ती कलयाऽपि वा । अभावे रोहिणीयुक्ता नभ कृष्णाऽष्टमी यदि ॥ १०३ ॥ मुहर्तमपि वा श्रेष्ठा सैनाभावे तिथिर्मता । कार्या विधाऽपि सप्तम्या रोहिणीसहिताऽष्टमी ॥१०४॥ अभावे केवला सा चेदिति वेदविदो विदु । मध्यरात्रिगता माघे शिवरात्रिचतुर्दशो ॥ १०५ ॥ कृष्णपचे जयन्ती च नोपेक्ष्ये विदिते अपि । नरस्य द्विगुणा छायामतिक्रम्य यदा रविः ॥ १०६ ।। तदा सौरं घरेन्नक्तं न नक्तं निशि भोजनम् । दिनमयेऽप्यमानस्या मध्याह्नव्यापिनी यदि ॥ १०७ ॥ मैत्रे देवव्रते ग्राह्या क्रमात् पूर्वापराऽपि च श्रमा दूष्या भूतविद्या मध्याहव्यापिनौ न चेत् ॥ १०८ ॥ ग्राह्या त्वमा भूतविदा मध्याह्ने प्रतिपद्यदि |