पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मसिद्धान्ते - पूज्या खल्पाऽपि सर्वत्र या तिथिर्वृद्धिगामिनी ॥ १६ ॥ महत्यपि न सा पूज्या या तिथि: चयगामिनी । बतादौ त्रिसुहत्तऽपि स्वीकार्या वृद्धिगामिनी ॥४७॥ तह प्रतादि कुर्वीत हतिहासादिकारदम् । यदा पक्षचयं याति तदा स्यादापराह्निकी ॥ ४८ ॥ उदयास्तगता पूज्या तिथिर्वृद्धिजये तिघेः | व्रतस्वीकरणे चैतदुक्तं लोकचतुष्टयम् ॥ १८ ॥ गृहीत्वोदङ्मुखं पात्रं वारिपूर्णमुदङ्मुखः । उपवास तु गृह्णीयाद्या कल्पयेद्दुधः ॥ ५० ॥ मैत्रे मुहूर्तमेतञ्च कार्यं नो चेद्वृषा फलम् । आपढशक्कादश्या याम्यायनदिने तथा ॥ ५.१ ॥ चातुर्मास्यव्रतं सर्वं स्वीकार्यं भुक्तिमुक्तिदम् । हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ॥ ५२ ॥ ब्रह्मचर्यमध गय्या नक्तभोज्यं पडाचरेत् । दिवानिद्राऽनृतं द्यूतं नाम्बूलं मद्यमासवम् ॥ ५३ ॥ कांस्यं मांस मस्र च चणकं कोहवं तथा । एकं मधु परान्नं च सुरा चौद्रं च मैथुनम् ॥ ५४ ॥ असहाज्जलपानं च लोभं वितघभाषणम् | चार प्रतिग्रहं तैलं तिलपिष्टमहंकृतिम् ॥ ५५ ॥ व्यायामं व्यवसायं च कामं क्रोधं मदं तथा । दम्भं मोहं च मात्सर्यं तिलमुगादिभचणम् ॥ ५६ ॥ 11 J