पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्री ॥ ॐ नम. गरमामने | ब्रह्मसिद्धान्तः | ब्रह्मण विरचितः । 1 ध्यानयोगसमारूढं ब्रह्माणं त्रिजगद्गुरुम् । अभिवाद्य सुखासीनं नारदः परिच्छति ॥ १ ॥ देवदेव जगन्नाथ सर्वज्ञ कमलासन | ज्योतिषां चरितं ज्ञानं ब्रूहि कालाशयं महत् ॥ २ ॥ अधीतमसिलं छन्दः स्थाणुरूपं प्रतीयते । अङ्गै विना यथैवाङ्गो तस्मादेतत् प्रसीद मे ॥ ३ ॥ इत्येवमुक्त विश्वात्मा नारदेन महर्षिया | पुत्रेण धीमता मीत्या वाक्यमेतदभापत ॥ ४ ॥ ब्रह्मोवाच । साधु साधु महाभाग यन्मां त्वं परिष्टच्छसि । विस्तरेगा प्रवक्ष्यामि तन्मे निगदतः भूटा ॥ ५ ॥ नारायण. सुरश्रेष्ठो वेदाकारेण वर्तते । चन्दःशास्त्र तस्य मादौ कल्पः पायी सुखं तथा ॥ ६॥