पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोलाध्यायः । तत्त्व तस्य/ट्विाकयैर्यत् सम्यक्ज्ञानं प्रजायते । . तेन नश्यति सा माया नान्यथा कोटिकर्मभिः ॥ ७२ ॥ विनष्टोव्याकृतं स्वस्थानिरूपपरमाम्टतम् (?) । कूटस्थ मोच इत्युक्तं चित्रं तब विचारय ॥ ७३ ॥ समाधिमार्ग.एवायं संसारजयकारणम् । एतद्ध्यायन् बुद्धिमान् स्यात् (?) कृतकृत्यः स एव हि ॥ १४ ॥ इति गुह्यतमं शास्त्रं भुक्तिमुक्तिफलप्रदम् | अधिगम्य ततः सोमाच्छौनकः पूमानसः ॥ ७५ ॥ लक्षदेहाश्च देहैश्च पूर्णचक्षुः पुनः पुनः । नमस्कृत्वा मिपादेव्या विवशो गद्गदखरः ॥ ७६ ॥ तुष्टात्र शान्तः खगुरुं शान्तं सविग्रहं मुनिम | जय चन्द्राम्हतांशो भो जय शङ्करभूपण ॥ ७७ ॥ जय सर्वज्ञ सर्वात्मन् जय सर्वेश्वर प्रभो । कृतार्थो कृतार्थोहं पुण्योहं पुतविग्रहः ॥ १८ ॥ धन्योहं वीतशोकोहमित्यव्राहमेव च । अच्छेहमदायोहममकं हमहं शिवम् ( ? ) ॥ ७६ ॥ अहं विष्णुरहं ब्रह्मा शक्रोहमहमंशुमान् | हरिव्योम सर्वमेतदहं जगत् ॥ ८० ॥ त्वत्प्रसादाद्ग हश्रेष्ठ एवमेतट्वैम्यहम् । त्राहि मामिति संप्रार्थ्य प्रणिपत्य पुनः पुनः ॥ ८१ ॥ गुरुं समर्चयामास गन्धपुष्पाचतादिभिः । .