पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (सोमसिद्धान्तः ब्रह्मसिद्धान्तश्च).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ सोमसिद्धान्ते । गतगम्या च पटिना नाड्यो गत्यन्तरोद्धृताः ॥ ४५ ॥ ध्रुवाणि शकुनं चैव चतुप्पान्नागमईतः । किंस्तुभं कृष्णभूतायाश्चत्वारि करणानि च ॥ ४५ ॥ बबादीनां ततः सप्त चराख्यकरणानि तु । मासेऽष्टकृत्व एकैकं करणानां प्रकल्पयेत् ॥ ४४ ॥ तिथ्यईभोगं सर्वेषां करणानां प्रकल्पयेत् । गतगम्यकलाराशेर्गत्या हानिस्तु संक्रमे ॥ ४५ ॥ संस्कृतायनभागार्कसंक्रमत्वयनं किल । खानदानादिषु श्रेष्ठं मध्यमं स्थानसंक्रमः ॥ ४६॥ ग्रहलिताष्टशत्या भं गम्याहानिगतैष्यकम् । तथार्केदुयुतेर्यो गो गत्यैकेन दिनानि तु ॥ ४७ ॥ इति श्रीसोमसिद्धान्ते स्पष्टाधिकारो द्वितीयः ॥ छाया वैषुवती या सा नाम माध्याहिकी च सा । तथार्केण हित विज्ये (१) विषुवत्कर्णभाजिते ॥ १ ॥ अक्षज्यालम्बजोवे तच्चापे याम्येक्षलम्बने । शङ्कच्छायाकृतियुतेर्मूलं कर्णेऽन्यथापि वा ॥ २ ॥ तुल्यै भिन्नदिगचांगक्रान्त्योर्विश्लेषणं नतम् । तद्दोस्त्रिज्ये हते सूर्ये कोप्याच हरमाथुती ( २ ) ॥ ३ ॥ सौम्याचोना यदाक्रान्तिरक्षज्या द्वादशाहता । क्रान्तिज्याप्ता थुतिर्भानौ प्राचीरेखां समागते ॥ ४ ॥ (१) तथार्केण हते त्रिज्ये इति साधु } (२) तसिज्याहते सूर्ये कोयते हरिभाश्रुती ||