पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ सविस्तरायां जैमिनीयन्यायमालायां [अ. २. पा. २. अधि. ८. -- ते प्राजापत्याः इति तद्धितव्युत्पत्तौ बहुत्वोपेताः पशव एकं द्रव्यम् । ततो द्रव्यैक्या- देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म । या तु 'सप्तदश' इति संख्या, सा पशुद्रव्य गता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता । तस्मात् न कर्मभेदमापा- दयतीति प्राप्ते-- ब्रूमः

-अत्र 'प्रजापतिर्देवता यस्य पशोः स

प्राजापत्यः' इति तद्धितान्तं प्राति- पदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपदिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मबहु- त्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने । तत्र प्रथमभाविन्या द्वितीयाविभक्त- रेव तद्नस्याऽन्वयः ? एवं सति प्राजाधितोत्पत्तिवेलायामन्वयो नाऽस्ति, कुतः पश्चाद्भाविनो बहुवचपत्य इत्यनेन तद्धितान्तप्रातिपदिकेनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूप समर्प्यते । तादृशानां रूपाणां बहुत्वाय बहुवचनम् । बहुत्वविशेषश्च ‘सप्तदश' इति निर्दिश्यते । तस्मादत्र संख्यया कर्मभेदः । एवं च सत्यष्टमे वक्ष्यमाणं सप्तदशपशू- नामैकादशिनपशुगणविकृतित्वमुपपद्यते ॥ . इति सप्तमं संख्याधिकरणम् ॥ ७ ॥ " अथाऽष्टमं संज्ञाधिकरणम् ॥ ८ ॥ (१) अष्टमाधिकरणमारचयति- अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक् । गुणः सहस्रदानात्मा ज्योतिष्टोमे ह्यनूदिते ।। २२ ॥ अथेति प्रकृते छिन्न एतच्छब्दोऽग्रगं वदेत् । संख्ययेवाऽन्यकर्मत्वमिह नूतनसंज्ञया ।। २३ ॥ (२) “अथैष ज्योतिः' (३) “अथैष विश्वज्योतिः” (४) “अथैष सर्वज्योतिः, एतेन सहस्रदक्षिणेन यजेतेति श्रूयते । अत्र प्रकृतं ज्योतिष्टोमं “एष ज्योति रित्यनूद्य तस्मिन् सहस्रदानलक्षणो गुणो विधीयत इति चेत्- न; प्रकृतस्य ज्योतिष्टोमस्य 'अथ' इत्यनेन विच्छिन्नत्वात् । न चैवं सति “अथैष ज्योति', रित्युक्त एतच्छब्दोऽनुपपन्न इति वाच्यम् । सन्निहितवाचिनैतच्छब्देनाऽतीत. सन्निहितस्येवाऽऽगामिसन्निहितस्याऽपि परामर्शसम्भवात् । आगामिसंनिहितश्च ज्यो- १. संख्यावत् संज्ञायाः पृथक्त्वनिवेशित्वाभावात् न भेदकतेति पूर्वपक्षोत्थानात् २. तां. ब्रा. १६. ८. १. ३. तां. ब्रा. १६. ९. १. ४. तां. बा. १६. १०. १. , प्रत्युदाहरणरूपा संगतिः ।